श्लोकः
तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान्।
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।।१-२६।।
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।१-२७।।
कृपया परयाविष्टो विषीदन्निदमब्रवीत्।

सन्धि विग्रहः
तत्र अपश्यत् स्थितान् पार्थः पितृन् अथ पितामहान्।
आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन् तथा।।१-२६।।
श्वशुरान् सुहृदः च एव सेनयोः उभयोः अपि।
तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान्।।१-२७।।
कृपया परयाविष्टः विषीदन् इतम् अब्रवीत्।

श्लोकार्थः
अथ पार्थः उभयोः सेनयोः अपि, तत्र स्थितान् पितृन्,
पितामहान्, आचार्यान्, मातुलान्, भ्रातृन्, पुत्रान्,
पौत्रान् तथा सखीन्, श्वशुरान् सुहृदः, च एव अपश्यत् सः कौन्तेयः।
तान् सर्वान् बन्धून् अवस्थितान् समीक्ष्य परया कृपया आविष्टः,
विषीतन् इदम् अब्रवीत्।

शब्दार्थः
1.26 तत्र=there अपश्यत्=he could see स्थितान्=standing पार्थः=Arjuna पितृन्=fathers अथ=alsoपितामहान्=grandfathers आचार्यान्=teachers मातुलान्=maternal uncles भ्रातृन्=brothers पुत्रान्=sonsपौत्रान्=grandsons सखीन्=friends तथा=too
1.27 श्वशुरान्=fathers in law सुहृदः=well-wishers च=also एव=certainly सेनयोः=of the armies उभयोः=of both parties अपि=including तान्=all of them समीक्ष्य=after seeing सः=he कौन्तेयः=the son of Kunti सर्वान्=all kinds of बन्धून्=relatives अवस्थितान्=situated कृपया=by compassion परयाविष्टः=of a high grade overwhelmed विषीदन्=while lamenting इतम्=thusअब्रवीत्=spoke

Meaning
1.26: Partha could see standing there (on the battlefield) fathers, also grandfathers, teachers, maternal uncles, brothers, sons, grandsons, friends too
1.27 Arjuna seeing fathers-in-law, well-wishers and relatives assembled besides the armies of both sides…