श्लोकः
अर्जुन उवाच।
दृष्ट्वेमं स्वजनम् कृष्ण युयुत्सुं समुपस्थितम्।।१-२८।।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।१-२९।।

सन्धि विग्रहः
अर्जुनः उवाच।
दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम्।।१-२८।।
सीदन्ति मम गात्राणि मुखम् च परिशुष्यति।
वेपथुः च शरीरे मे रोम-हर्षः च जायते।।१-२९।।

श्लोकार्थः
अर्जुनः उवाच।
हे कृष्ण!  इमम्  स्वजनम् युयुत्सुम् समुपस्थितम्  दृष्ट्वा
मम गात्राणि  सीदन्ति मुखम् च परिशुष्यति, मे  शरीरे
वेपथुः च रोम-हर्षः च जायते

शब्दार्थः
अर्जुनः उवाच।=Arjuna Said
1.28 दृष्ट्वा=after seeing इमम्=all these स्वजनम्=kinsmen कृष्ण=O Krishna युयुत्सुम्=all in a fighting spiritसमुपस्थितम्=present
1.29 सीदन्ति=are quivering मम=my गात्राणि=limbs of the body मुखम्=mouth च=also परिशुष्यति=is drying up वेपथुः=trembling of the body च=also शरीरे=on the body मे=my रोम-हर्षः=standing of hair on end च=alsoजायते=is taking place

Meaning
1.28: Overcome by supreme compassion and bemoaning, Arjuna spoke, O Krishna, seeing these relatives with intention to fight and readying for battle…
1.29: My limbs are afflicted with fatigue; my mouth is parched; my body is trembling; my hair stands on end.