श्लोकः
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनारदन।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः।।१-३६।।

सन्धि विग्रहः
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन।
पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः।।१-३६।।

श्लोकार्थः
हे जनार्दन! एतान्  धार्तराष्ट्रान्  निहत्य नः का प्रीतिः
स्यात्? आततायिनः हत्वा अस्मान् पापम् एव आश्रयेत्।।१-३६।।

शब्दार्थः
1.36 निहत्य=by killing धार्तराष्ट्रान्=the sons of Dhritarashtra नः=our का=what प्रीतिः=pleasure स्यात्=will there be जनार्दन=O maintainer of all living entities. पापम=vices एव=certainly आश्रयेत्=must come upअस्मान्=us हत्वा=by killing एतान्=all these आततायिनः=aggressors

Meaning
1.36: By killing the sons of Dhrtrastra, what pleasure can there be? O Janardhana, upon killing these heinous sinners, sin will descend on us.