संस्कृत वाक्य अभ्यासः

~~~~~~~~~~~~~~

मम नखाः दीर्घा: न सन्ति ।

= मेरे नाखून बड़े नहीं हैं ।

My nails are not big.

एतां ग्रन्थिम् उद्घाटयितुं न शक्नोमि ।

= इस गाँठ को खोल नहीं सकता मैं ।

I cannot open this knot.

कस्य नखाः दीर्घा: सन्ति ।

= किसके नाखून लम्बे हैं ?

Whose nails are long?

सोहनस्य नखाः दीर्घा: सन्ति ।

= सोहन के नाखून बड़े हैं ।

Sohan’s nails are big.

सोहन ! त्वम् एतां ग्रंथिम् उद्घाटय ।

= सोहन तुम ये गाँठ खोल दो ।

Sohan you open this knot.

सोहन – मम नखाः दीर्घा: अभवन् ।

= मेरे नाखून बड़े हो गए हैं ।

My nails have grown.

सोहन – अहं ग्रंथिम् उद्घाटयामि ।

= मैं गाँठ खोलता हूँ ।

I open the knot.

सोहन – अनन्तरम् अहं मम नखान् कर्तयिष्यामि ।

= बाद में मैं मेरे नाखून काट लूँगा ।

Later I will cut my nails.

सोहन – मह्यं दीर्घा: नखाः न रोचन्ते ।

= मुझे लम्बे नाखून पसन्द नहीं हैं ।

I do not like long nails.