एकं वनम् आसीत्। तस्मिन् वने एकः तडागः आसीत्।

तत्र एकः कच्छपः, एकः मूषकः, एकः हरिणः च एकः काकः निवसन्ति स्म।

ते सर्वे एकत्र सुखेन परस्परं मिलित्वा जीवन्ति स्म।

एकदा सायङ्काले सर्वे मिलितवन्तः आसन् परन्तु तत्र हरिणः न आगतः आसीत्।

हरिणः किमर्थं न आगतः इति तेषां चिन्ता अभवत्। तदा ते सर्वे परामर्शं कृत्वा तस्य हरिणस्य अन्वेषणाय काकः उड्डीय गतवान्।

काकः गत्वा दृष्टवान् सः हरिणः एकस्मिन् पाशे बद्धः आसीत् इति।

ततः काकः पुनः तडागस्य समीपम् आगत्य कथं तं हरिणं पाशात् मोक्षयिष्यामः इति कच्छपेन मूषकेण च सह परामर्शं कृत्वा मूषकः एव तत् कार्यं कर्तुं शक्ष्यति इति तैः निर्दिष्टः कृतः। सः मूषकः पाशं कर्तितुं शक्ष्यति इति निर्दिष्टं कृतवन्तः।

इदानीं मूषकः पाशस्य समीपं कथं शीघ्रं गच्छेत् इति तेषां चिन्ता अभवत्।

तदा काकः एकं उपायं विचिन्त्य मूषकं उक्तवान् हे मित्र! भवान् मम पृष्ठे उपविशतु, अहं भवन्तं उड्डीय तत्र नेष्यामि इति।

मूषकः तथैव कृतवान्, काकः च तं तस्य पृष्ठे उपाविश्य उड्डीय तत्र गतवान्।

तत्र गत्वा यस्मिन् पाशे हरिणः बद्धः आसीत् तं पाशं सः मूषकः तस्य दन्तैः कर्तयित्वा तस्मै मुक्तिम् अददात्।

व्याधस्य आगमनात् पूर्वं ते सर्वे ततः पुनः तडागस्य समीपं प्रत्यागतवन्तः आसन्।

एवमेव ते सर्वे विपत्तिकाले परस्परं साहाय्यं कुर्वन्ति सुखेन जीवन्ति स्म इति।

-प्रदीपः clomid cena!