पप्पू आपणं गत्वा आपणिकं पृष्टवान् भोः महोदय। अस्य वानरस्य चित्रस्य मूल्यं किम् ?

आपणिकः किमपि अनुक्त्वा तूष्णीम् एव आसीत्।

पुनः सः पृष्टवान् भोः। अस्य चित्रस्य मूल्यं किम्?

आपणिकः तदानीम् अपि तूष्णीम् आसीत्।

पप्पू तदा कोपेन पृष्टवान् भोः। किं भवान् मूकः वा?

किमर्थम् उत्तरं न ददाति इति।

तदा सः आपणिकः विनम्रस्वरेण उक्तवान् महोदय इदं न चित्रम्, अपि तु अयं दर्पणः वर्तते। 😁

-प्रदीपः!