मणिकर्णिकाष्टकम्

मणिकर्णिकाष्टकम्

हर हर महादेव हर हर महादेव

त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ

वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे ।

मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणात्

तन्मध्याद्भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः ॥ १॥

इन्द्राद्यास्त्रिदशाः पतन्ति नियतं भोगक्षये ये पुन

र्जायन्ते मनुजास्ततोपि पशवः कीटाः पतङ्गादयः ।

ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषाः

सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥ २॥

काशी धन्यतमा विमुक्तनगरी सालंकृता गङ्गया

तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी ।

स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा

काशी क्षोणितले स्थिता गुरुतरा स्वर्गो लघुत्वं गतः ॥ ३॥

गङ्गातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा

तस्यां सा मणिकर्णिकोत्तमतमा येत्रेश्वरो मुक्तिदः ।

देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं

पूर्वोपार्जितपुण्यपुञ्जगमकं पुण्यैर्जनैः प्राप्यते ॥ ४॥

दुःखाम्भोधिगतो हि जन्तुनिवहस्तेषां कथं निष्कृतिः

ज्ञात्वा तद्वि विरिञ्चिना विरचिता वाराणसी शर्मदा ।

लोकाःस्वर्गसुखास्ततोऽपि लघवो भोगान्तपातप्रदाः

काशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ ५॥

एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरः

योऽप्येकः किल शंकरो विषधरो गङ्गाधरो माधवः ।

ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवाः

रुद्रा वा हरयो भवन्ति बहवस्तेषां बहुत्वं कथम् ॥ ६॥

त्वत्तीरे मरणं तु मङ्गलकरं देवैरपि श्लाध्यते

शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः ।

आयान्तं सविता सहस्रकिरणैः प्रत्युग्दतोऽभूत्सदा

पुण्योऽसौ वृषगोऽथवा गरुडगः किं मन्दिरं यास्यति ॥ ७॥

मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः

स्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः ।

योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारंगतः

त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ ८॥

कृच्छैर्ः कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं

तत्सर्वे मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् ।

स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं

तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

मणिकर्णिकाष्टकं सम्पूर्णम् ॥