पुत्री – अम्ब , अद्य तातः विलम्बेन आगमिष्यति ।

= माँ , आज पिताजी देर से आएँगे ।

Daughter- Mother, father will be late today.

माता – अद्य पुनः page!!

= आज फिर से !!

Mother – again today !!

पुत्री – आम् , तातस्य दूरवाणी आसीत् ।

= हाँ , पिताजी का फोन था ।

Yes, Dad had a call.

माता – तव पितुः कार्यालये कार्यम् अधिकम् अस्ति ।

= तुम्हारे पिताजी के ऑफिस में अधिक काम है ।

Your father has more work in the office.

पुत्री – तातः अपि अधिकं कार्यं करोति ।

= पिताजी भी बहुत काम करते हैं ।

Dad also works a lot.

पुत्री – यावत् तातः न आगच्छति …

= जब तक पिताजी नहीं आते

Until daddy comes

  • तावत् अहं किमपि न खादिष्यामि

= तब तक मैं कुछ नहीं खाऊँगी

Till then i won’t eat anything

माता – अहमपि न खादिष्यामि ।

= मैं भी नहीं खाऊँगी ।

I will not eat either.

माता – तस्य भोजने अधिकं गोघृतं स्थापयिष्यामि ।

= उनके भोजन में अधिक गौ घृत डालूँगी ।

I will add more cow’s ghee to their food.

पुत्री – आम् अहम् ऊष्णां रोटिकां दास्यामि ।

= हाँ मैं गरम रोटी दूँगी ।

Yes, I will give hot roti.

पुत्री – अम्ब , पिता देशसेवकः अस्ति ।

= माँ , पिताजी देशसेवक हैं ।

Mother, father is a country servant.

  • सः सर्वेषां कार्यं करोति ।

= वो सबका काम करते हैं ।

They work for everyone.

माता – आम् पुत्री

= हाँ बिटिया ।

Yes daughter.