आरक्षकः- (बन्दीपालम् उद्दिश्य) श्रीमन्! एका महती समस्या अभवत् slovenska-lekaren.com!

बन्दीपालः- किम् अभवत्?

आरक्षकः- कारागारे ये अपराधिनः आसन् ते सर्वे मिलित्वा ह्यः रामायणस्य नाटकं कृतवन्तः आसन्!

बन्दीपाल:- अस्तु समीचीनम्! परन्तु तत्र का समस्या?

आरक्षकः- श्रीमन्! लक्ष्मणस्य प्राणान् रक्षणाय औषधम् आनेतुं यः हिमालयं गतवान् आसीत् सः अधुनापि न प्रत्यागतवान्।

बन्दीपाल:- किम्?😡 कुत्र गतः स अपराधी? शीघ्रं गत्वा तम् आनयतु!🙁🙁