We will run the program

Published on 20 December 2019 06:55 AM
धीरजः - सः न आगमिष्यति ।

= वह नहीं आएगा ।

Dheeraj - He will not come.

लोकेशः - कः न आगमिष्यति ?

= कौन नहीं आएगा ?

Lokesh - Who will not come?

धीरजः - कार्यक्रमस्य मुख्य-अतिथिः

= कार्यक्रम का मुख्य अतिथि

Dheeraj - Chief guest of the program

लोकेशः - सः किमर्थं न आगमिष्यति ?

= वह क्यों नहीं आएगा ?

lokesh - why won't he come?

धीरजः - सः रेलयाने आरक्षणं न प्राप्तवान् ।

= उसे रेल में आरक्षण नहीं मिला ।

dheeraj - He did not get reservation in rail.

लोकेशः - तर्हि सः लोकयानेन आगच्छेत् ।

= तो फिर वो बस से आ जाएँ ।

lokesh - Then they come by bus.

धीरजः - सः लोकयानेन यात्रां न करोति ।

= वह बस से यात्रा नहीं करता है

dheeraj - he does not travel by bus

धीरजः - लोकयाने सः कष्टम् अनुभवति

= बस में वह कष्ट अनुभव करता है ।

dheeraj - in the bus he feels pain.

लोकेशः - तर्हि कार्यक्रमे अन्यः कः आगमिष्यति ?

= तो फिर कार्यक्रम में और कौन आएगा ?

lokesh - Then who else will come in the program?

धीरजः - वयमेव कार्यक्रमं सम्पादयामः ।

= हम ही कार्यक्रम को चलाएँगे

dheeraj - we will run the program