एकस्य कृपणस्य महान् रोगः अभवत्।

बहूनि दिनानि यावत् सः शय्यायाः उत्थितुम् एव न शक्नोति स्म।

सः मृत्योः प्रतीक्षां कुर्वन् आसीत्।

सः तस्य पत्नीं आहूय अयि प्रिये! भवति कुत्र अस्ति?

तस्य पत्नी तस्य समीपम् आगत्य हे नाथ! अहं तु अस्मि भवतः पार्श्वे।

मम अपत्यानि कुत्र सन्ति इति पुनः पृष्टवान् सः कृपणः।

ते अपि आगत्य उक्तवन्तः तात! वयमपि स्मः भवतः पार्श्वे एव।

भवन्तः सर्वे अपि अत्र एव सन्ति तर्हि तस्मिन् पार्श्वस्थे प्रकोष्ठे व्यजनं किमर्थं चलति?

कः अस्ति तस्मिन् प्रकोष्ठे?