महाराज विक्रमादित्यः!!
विक्रमादित्यः एकः महान् राजा आसीत्!
सः अतीव उदारः प्रजारञ्जकः च आसीत्!
सः प्रजानां दुःखं परिहर्तुं सर्वदा तत्परः भवति स्म!
एकदा अश्वारोहणं कृत्वा महाराज विक्रमादित्यः अरण्यमार्गे एकाकी एव गच्छन् आसीत्!
सन्ध्याकालः सन्निहितः अतः शीघ्रं वनात् बहिः गच्छामि इति सः चिन्तयन् आसीत्!
तावता एव किञ्चिद् दूरे एकस्याः धेनोः क्रन्दनं तेन श्रुतम्!
तदा तां दिशाम् अनुसृत्य राजा विक्रमादित्यः तत्र गतवान्!
वर्षाकालः आसीत् अतः नदीषु प्रवाहः आसीत्!
सर्वत्र जलपूरः, गर्ताः जलेन पूर्णाः आसन्!
तेषु एकस्मिन् गर्ते मलिने पङ्के एका धेनुः पतित्वा आक्रन्दति स्म!
एतद् दृष्ट्वा महाराजः धेनोः रक्षणार्थं स्वयमेव तस्मिन् पङ्कम् अवतिर्णवान्! किन्तु सः अपि पङ्के निमग्नः अभवत्!
रात्रिः इत्यतः सः एकाकी धेनुं रक्षितुं न शक्तवान्! धेनुः अपि प्राणभीत्या उच्चैः आक्रन्दति स्म!
तच्छ्रुत्वा कश्चन सिंहः तत्र आगतवान्!
सः धेनुं खादितुम् इष्टवान् च!
तदा तत्र विद्यमानः अश्वः तं सिंहं दृष्ट्वा पलायनं कृतवान्!
इदानीं एकाकी एव महाराजः धेनुं रक्षितुम् इच्छति परन्तु सिंहः तां खादितुम् इच्छति!
अतः महाराजः सिंहस्य भयजननार्थं तस्य कोषात् खड्गं स्वीकृतवान्!
यदा यदा सिंहः गाम् खादितुम् आगच्छति तदा तदा महाराजः तं सिंहं खड्गं दर्शयन् भययति स्म!
गर्तस्य समीपे एकः वटवृक्षः आसीत्! तस्मिन् वृक्षे स्थितः कश्चन शुकः एतत् सर्वं पश्यन् आसीत्!
सः शुकः महाराजं पृष्टवान् हे राजन्! अस्याः धेनोः मरणं सन्निहितम् अस्ति! भवान् एतां सिंहात् रक्षति चेदपि किमपि प्रयोजनं नास्ति! यतः पङ्के पतिता धेनुः प्रातःकालात् पूर्वमेव निमज्जति!
इदानीं तु एकः एव सिंहः अत्र अस्ति , किञ्चित् कालात् परं अत्र सिंही अपि आगच्छति अतः भवान् व्यर्थं कार्यं त्यजतु !
भवतः प्राण-रक्षणार्थम् अत्र वृक्षस्य उपरि आगत्य उपविशतु इति!
शुकस्य वचनं श्रुत्वा महाराजः उक्तवान् भोः शुक! मद्विषये भवतः प्रीतिं ज्ञात्वा सन्तोष्टोऽहम् ! परन्तु अनितिमार्गं भवान् न उपदिशतु!
यतः स्वस्य प्राणरक्षणार्थं कृमिकीटादयः अपि प्रयत्नं कुर्वन्ति परन्तु यः अन्येषां प्राणरक्षणार्थं जीवति सः एव धन्यः!
मम प्रयत्नेन कोऽपि लाभः भवति वा न वा इति अहं न जानामि किन्तु धेनोः रक्षणं मया कर्तव्यम्!
मम प्राणान् त्यक्त्वा अपि वा अहम् एतां धेनुं रक्षामि एव इति महाराजः उक्तवान्!
ततः महाराजः प्रातःकालपर्यन्तमपि धेनोः रक्षणं कृतवान्!
प्रातःकाले सिहरूपेण स्थितः देवेन्द्रः स्वस्य रूपं प्रकटितवान् !
धेनुरूपेण स्थिता भूदेवी शुकरूपेण स्थितः धर्मः चापि स्व स्व रूपं प्रकटितवन्तौ !
ते सर्वे अपि महाराजस्य विक्रमादित्यस्य त्यागं शौर्यं च श्लाघित्वा तम् अभिनन्दितवन्तः !
एवं महाराजस्य विक्रमादित्यस्य शौर्यं लोकोत्तरम् आसीत्!
🌹🌹
-प्रदीपः