शृणोति वन्दने सर्व-
मीश्वरो मन्यते नरः।
चिन्तयति यदा निन्दा
क्रियते बधिरः प्रभुः।।(1)
मन्यते पुण्यकालेऽपि
सर्वं पश्यति केशवः।
विस्मरणं यदा पापं
क्रियते वनमालिनः।।(2)
सर्वेषां मनसि ब्रह्म
दानकाले हि मन्यते।
कुर्वन् दुष्कर्म गोविन्दः
त्रिकालज्ञो न तन्मते।।(3)
सर्वमिदं जगत्तस्य
रचना प्रियता यदा।
ईर्ष्यायां जगच्छत्रुः
धीमन्तं मन्यते स्वयम्।।(4)
–मार्कण्डेयो रवीन्द्रः