दीर्घकालः. (7) – चिराय (अव्य), चिररात्राय (अव्य), चिरस्य (अव्य), चिरम् (अव्य), चिरेण (अव्य), चिरात् (अव्य), चिरे (अव्य)
3.4.1.1 – चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः

पौनःपुन्यः. (5) – मुहुस् (अव्य), पुनःपुनर् (अव्य), शश्वत् (अव्य), अभीक्ष्णम् (अव्य), असकृत् (अव्य)
3.4.1.2 – मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः

तत्क्षणम्. (7) – स्राक् (अव्य), झटिति (अव्य), अञ्जसा (अव्य), आह्नाय (अव्य), द्राक् (अव्य), मङ्क्षु (अव्य), सपदि (अव्य)
3.4.2.1 – द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते

अतिशयः. (7) – बलवत् (अव्य), सुष्ठु (अव्य), किमुत (अव्य), सु (अव्य), अति (अव्य), अतीव (अव्य), निर्भर (वि)
3.4.2.2 – बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे

वर्जनम्. (6) – पृथक् (अव्य), विना (अव्य), अन्तरेण (अव्य), ऋते (अव्य), हिरुक् (अव्य), नाना (अव्य)
3.4.3.1 – पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने

कारणम्. (2) – यत् तत् (अव्य), यतः ततः (अव्य)
असाकल्यम्. (2) – चित् (अव्य), चन (अव्य)
3.4.3.2 – यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन

कस्मिंश्चित्काले. (2) – कदाचित् (अव्य), जातु (अव्य)
सह. (5) – सार्धम् (अव्य), साकम् (अव्य), सत्रा (अव्य), सम (अव्य), सह (अव्य)
3.4.4.1 – कदाचिज्जातु सार्धं तु साकं सत्रा समं सह

आनुकूल्यम्. (1) – प्राध्वम् (अव्य)
व्यर्थकम्. (2) – वृथा (अव्य), मुधा (अव्य)
3.4.4.2 – आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा

विकल्पनम्. (6) – आहो (अव्य), उताहो (अव्य), किमुत (अव्य), किम् (अव्य), किमु (अव्य), उत (अव्य)
3.4.5.1 – आहो उताहो किमुत विकल्पे किं किमूत च

पादपूरणम्. (6) – तु (अव्य), हि (अव्य), च (अव्य), स्म (अव्य), ह (अव्य), वै (अव्य)
पूजनम्. (2) – सु (अव्य), अति (अव्य)
3.4.5.2 – तु हि च स्म ह वै पादपूरणे पूजने स्वति

दिवसः. (1) – दिवा (अव्य)
रात्रिः. (2) – दोषा (अव्य), नक्तम् (अव्य)
3.4.6.1 – दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि

तिर्यक्. (2) – साचि (अव्य), तिरस् (अव्य)
3.4.6.2 – तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः

सम्बोधनार्थकः. (6) – प्याट् (अव्य), पाट् (अव्य), अङ्ग (अव्य), हे (अव्य), है (अव्य), भोस् (अव्य)
सामीप्यम्. (3) – समया (अव्य), निकषा (अव्य), हिरुक् (अव्य)
3.4.7.1 – स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्

अविचारितम्. (1) – सहसा (अव्य)
अग्रे. (3) – पुर (अव्य), पुरतस् (अव्य), अग्रतः (अव्य)
3.4.7.2 – अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः

देवहविर्दानम्. (5) – स्वाहा (अव्य), श्रौषट् (अव्य), वौषट् (अव्य), वषट् (अव्य), स्वधा (अव्य)
3.4.8.1 – स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा

अल्पम्. (3) – किञ्चित् (अव्य), ईषत् (अव्य), मनाक् (अव्य)
जन्मान्तरम्. (2) – प्रेत्य (अव्य), अमुत्र (अव्य)
3.4.8.2 – किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे

साम्यम्. (6) – व (अव्य), वा (अव्य), यथा (अव्य), तथा (अव्य), इव (अव्य), एवम् (अव्य)
विस्मयः. (2) – अहो (अव्य), ही (अव्य)
3.4.9.1 – व वा यथा तथेवैवं साम्येऽहो ही च विस्मये

मौनम्. (2) – तूष्णीं (अव्य), तूष्णीकां (अव्य)
तत्क्षणम्. (2) – सद्यस् (अव्य), सपदि (अव्य)
3.4.9.2 – मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे

कल्याणम्. (2) – दिष्ट्या (अव्य), समुपजोषम् (अव्य)
मध्यम्. (2) – अन्तरे (अव्य), अन्तरा (अव्य)
3.4.10.1 – दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा

मध्यम्. (1) – अन्तरेण (अव्य)
बलात्कारः. (1) – प्रसह्य (अव्य)
3.4.10.2 – अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्

उचितम्. (2) – साम्प्रतम् (अव्य), स्थाने (अव्य)
निरन्तरम्. (2) – अभीक्ष्णम् (अव्य), शश्वत् (अव्य)
3.4.11.1 – युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते

निषेधः. (4) – नहि (अव्य), अ (अव्य), नो (अव्य), नापि (अव्य)
वारणम्. (3) – मास्म (अव्य), मा (अव्य), अलम् (अव्य)
3.4.11.2 – अभावे नह्य नो नापि मास्म मालं च वारणे

पक्षान्तरम्. (2) – चेत् (अव्य), यदि (अव्य)
तत्वम्. (2) – अद्धा (अव्य), अञ्जसा (अव्य)
3.4.12.1 – पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्

स्फुटम्. (2) – प्रादुस् (अव्य), आविस् (अव्य)
अनुमतिः. (3) – ओम् (अव्य), एवम् (अव्य), परमम् (अव्य)
3.4.12.2 – प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते

सर्वत्र. (4) – समन्ततस् (अव्य), परितस् (अव्य), सर्वतस् (अव्य), विष्वक् (अव्य)
3.4.13.1 – समन्ततस्तु परितः सर्वतो विष्वगित्यपि

अकामानुमतिः. (1) – काम (अव्य)
असूयापूर्वकस्वीकारः. (1) – अस्तु (अव्य)
3.4.13.2 – अकामानुमतौ काममसूयोपगमेऽस्तु च

विरोधोक्तिः. (1) – ननु (अव्य)
कामप्रवेदनम्. (1) – कच्चित् (अव्य)
3.4.14.1 – ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने

निन्दितार्थः. (2) – निष्षम (अव्य), दुष्षम (अव्य)
यथायोग्यम्. (2) – यथास्वम् (अव्य), यथायथम् (अव्य)
3.4.14.2 – निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्

असत्यम्. (2) – मृषा (अव्य), मिथ्या (अव्य)
सत्यम्. (2) – यथार्थम् (अव्य), यथातथम् (अव्य)
3.4.15.1 – मृषा मिथ्या च वितथे यथार्थं तु यथातथम्

निश्चयार्थः. (5) – एवम् (अव्य), तु (अव्य), पुनर् (अव्य), वा (अव्य), एव (अव्य)
3.4.15.2 – स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः

प्राङ् देशः. (1) – प्राक् (अव्य)
अतीतकालः. (1) – प्राक् (अव्य)
निश्चितम्. (2) – नूनम् (अव्य), अवश्यम् (अव्य)
3.4.16.1 – प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्

संवत्सरः. (1) – संवत् (अव्य)
समोक्तस्य नीच कालो देशो वा. (1) – अर्वाक् (अव्य)
निश्चयम्. (1) – आम् (अव्य)
आत्मना. (1) – स्वयम् (अव्य)
3.4.16.2 – संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना

अल्पम्. (1) – नीचैस् (अव्य)
महत्. (1) – उच्चैस् (अव्य)
भूम्न्यर्थः. (1) – प्रायस् (अव्य)
अद्रुतम्. (1) – शनैस् (अव्य)
3.4.17.1 – अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः

नित्यम्. (1) – सना (अव्य)
बहिः. (1) – बहिस् (अव्य)
अतीतः. (1) – स्म (अव्य)
अदर्शने. (1) – अस्त (अव्य)
3.4.17.2 – सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने

सत्वम्. (1) – अस्ति (अव्य)
रुषोक्तिः. (1) – उ (अव्य)
प्रश्नः. (1) – ऊम् (अव्य)
अनुनयः. (1) – अयि (अव्य)
3.4.18.1 – अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि

तर्कः. (1) – हुम् (अव्य)
प्रत्यूषः. (1) – उषा (अव्य)
नमस्कारार्थः. (1) – नमस् (अव्य)
3.4.18.2 – हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ

पुनरर्थः. (1) – अङ्ग (अव्य)
निन्दा. (1) – दुष्ठु (अव्य)
प्रशंसनम्. (1) – सुष्ठु (अव्य)
3.4.19.1 – पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने

दिनान्तः. (1) – सायम् (अव्य)
प्रभातम्. (2) – प्रगे (अव्य), प्रातर् (अव्य)
समीपः. (1) – निकषा (अव्य)
3.4.19.2 – सायं साये प्रगे प्रातः प्रभाते निकषान्तिके

पूर्वे अब्दे. (1) – परुत् (अव्य)
पूर्वतरे अब्दे. (1) – परारि (अव्य)
अस्मिन् अब्दे. (1) – ऐषमम् (अव्य)
3.4.20.1 – परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति

अस्मिन्नहनि. (1) – अद्य (अव्य)
3.4.20.2 – अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात्

पूर्वे अह्नि. (1) – पूर्वेद्युस् (अव्य)
उत्तरे अह्नि. (1) – उत्तरेद्युस् (अव्य)
अपरे अह्नि. (1) – अपरेद्युस् (अव्य)
अधरे अह्नि. (1) – अधरेद्युस् (अव्य)
अन्यस्मिन् अह्नि. (1) – अन्येद्युस् (अव्य)
अन्यतरस्मिन् अह्नि. (1) – अन्यतरेद्युस् (अव्य)
इतरस्मिन् अह्नि. (1) – इतरेद्युस् (अव्य)
3.4.21.1 – तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः

उभयस्मिन्नह्नि. (2) – उभयद्युस् (अव्य), उभयेद्युस् (अव्य)
परे अह्नि. (1) – परेद्यवि (अव्य)
3.4.21.2 – उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि

अतीते अह्नि. (1) – ह्यस् (अव्य)
अनागते अह्नि. (1) – श्वः (अव्य)
परे अह्नि. (1) – परश्वस् (अव्य)
3.4.22.1 – ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि

तदानीम्. (1) – तदा (अव्य)
एकस्मिन् काले. (2) – युगपत् (अव्य), एकदा (अव्य)
सर्वस्मिन् काले. (2) – सर्वदा (अव्य), सदा (अव्य)
3.4.22.2 – तदा तदानीं युगपदेकदा सर्वदा सदा

अस्मिन्काले. (5) – एतर्हि (अव्य), सम्प्रति (अव्य), इदानीम् (अव्य), अधुना (अव्य), साम्प्रतम् (अव्य)
3.4.23.1 – एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा

पूर्वदिग्देशकालाः. (1) – प्राक् (अव्य)
उत्तरदिग्देशकालाः. (1) – उदक् (अव्य)
पश्चिमदिग्देशकालाः. (1) – प्रत्यक् (अव्य)
दक्षिणदिग्देशकालाः. (1) – अवाक् (अव्य)
3.4.23.2 – दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः