पुरा शुम्भः निशुम्भो इति दौ असुरभ्रातरौ आस्ताम्!

एकदा तौ भ्रातरौ असुरसैनिकैः सह स्वर्गस्य आक्रमणं कृतवन्तौ आस्ताम्!

तदा आरम्भः अभवत् देवासुरयोः तुमुलयुद्धम् !

देवानां साहाय्यार्थं देवी दुर्गा अपि असुरैः सह युद्धं कृतवती! परन्तु असुराणां शक्तिः अधिका आसीत्!

युद्धे तान् असुरान् पराजयितुम् असमर्था देवी दुर्गा तदा आक्रोशेन तस्याः तृतीयनेत्रम् उद्घाटितवती आसीत्!

तस्मात् नेत्रात् आविर्भूता अभवत् खड्गहस्ता एका भयङ्करी नारीमूर्तिः kamagra oral jelly!

कृष्णवर्णा चतुर्भुजा सा एव देवी काली!

तदा देवी काली अपि असुरैः सह तुमुलयुद्धं कृतवती आसीत्!

बहवः असुराः तया हताः!

तस्याः देव्याः काल्याः ताण्डवे यदा असुराः दिग्भ्रान्ताः अभवन् तदा शुम्भनिशुम्भयोः सेनापति रक्तबीजः काल्याः पुरतः युद्धं कर्तुं गतवान् आसीत्!

रक्तबीजस्य वरम् आसीत् यत् यदि तस्य शरीरात् एक बिन्दु रक्तं भूमौ पतेत् तर्हि तस्मात् रक्तात् पुनः रक्तबीजस्य जन्म भविष्यति इति!

माता देवी काली तदा रक्तबीजं दृष्ट्वा तस्य उपरि पराक्रम्या आक्रमणं कृतवती आसीत्!

रक्तबीजस्य शरीरात् यदा रक्तं भूमौ पतति तदा तस्मात् रक्तात् पुनः एकस्य रक्तबीजस्य जन्म भवति इति दृष्ट्वा सा देवी चिन्तिता अभवत्!

तत्पश्चात् सा रक्तबीजस्य शरीरस्य सर्वं रक्तं स्वयं पीत्वा तम् अहन्!

सर्वान् असुरान् हत्वा सा देवी काली उन्मत्ता अभवत् नृत्यं च आरब्धवती आसीत्!

तस्याः देव्याः कण्ठे असुराणां मुण्डैः निर्मिता माला आसीत्!

तस्याः कट्यां असुराणां हस्तैः च वेष्टनम् आसीत्!

तदा सर्वे देवाः चिन्तायाम् एव अपतन् ! कथं तां रोद्धुं शक्नुमः इति परन्तु तां रोद्धुं केनापि न शक्यम्!

अन्ते च उपायम् एव न प्राप्य ते सर्वे देवाः महादेवस्य समीपं गतवन्तः सर्वं वृत्तान्तं च उक्तवन्तः आसन्!

तदा भगवान् शिवः आगत्य तस्याः मार्गं रोद्धुं तस्याः पुरतः मार्गे सुप्तवान् आसीत्!

तदा माता देवी काली वेगेन आगत्य भगवतः शिवस्य उपरि तस्याः पादं स्थापितवती आसीत्!

तस्याः पादतले भगवन्तं दृष्ट्वा सा देवी तस्याः मुखात् जिह्वां बहिः कृत्वा दन्तैः चर्वितवती आसीत्!

तस्याः एव देव्याः काल्याः मूर्तेः अद्यापि वयं सर्वे पूजां कुर्मः!

जय माँ काली!! 🌹🌹

-प्रदीपः!!