Category: Hathayoga Pradipika

Hathayoga 1-69 1-70

न वेष-धारणं सिद्धेः कारणं न च तत्-कथा । क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ ६९॥ पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राज-योग-फलावधि ॥ ७०॥ इति हठ-प्रदीपिकायां प्रथमोपदेशः । Na veshadhāranam...

Read More

Hathayoga 1-68

क्रिया-युक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते ॥ ६८॥ Kriyāyuktasya siddhih syādakriyasya katham bhavet Na śāstrapāthamātrena yogasiddhih prajāyate Success cannot be attained...

Read More

Hathayoga 1-67

युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिमाप्नोति सर्व-योगेष्वतन्द्रितः ॥ ६७॥ Yuvo vrddhoativrddho vā vyādhito durbaloapi vā Abhyāsātsiddhimāpnoti sarvayogheshvatandritah Success comes to him who is...

Read More

Hathayoga 1-66

पुष्टं सुमधुरं स्निग्धं गव्यं धातु-प्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ ६६॥ Pushtam sumadhuram snighdham Gavyam dhātupraposhanam Manobhilashitam yoghyam yogī bhojanamācharet Whether young, old or too old, sick or...

Read More

Hathayoga 1-65

गोधूम-शालि-यव-षाष्टिक-शोभनान्नं क्षीराज्य-खण्ड-नवनीत-सिद्धा-मधूनि । शुण्ठी-पटोल-कफलादिक-पञ्च-शाकं मुद्गादि-दिव्यमुदकं च यमीन्द्र-पथ्यम् ॥ ६५॥ Ghodhūmaśāliyavashāshtikaśobhanānnam Kshīrājyakhandanavanītasi hāmadhūni...

Read More

Hathayoga 1-64

तथा हि गोरक्ष-वचनम् वर्जयेद्दुर्जन-प्रान्तं वह्नि-स्त्री-पथि-सेवनम् । प्रातः-स्नानोपवासादि काय-क्लेश-विधिं तथा ॥ ६४॥ Tathā hi ghorakshavachanam Varjayeddurjanaprāntam vahnistrīpathisevanam Prātahsnānopavāsādi...

Read More

Hathayoga 1-63

वह्नि-स्त्री-पथि-सेवानामादौ वर्जनमाचरेत् ॥ ६३॥ Vahnistrīpathisevānāmādau varjanamācharet As said by Goraksa, one should keep aloof from the society of the evilminded, fire, women, travelling, early morning bath, fasting,...

Read More

Hathayoga 1-62

भोजनमहितं विद्यात्पुनरस्योष्णी-कृतं रूक्षम् । अतिलवणमम्ल-युक्तं कदशन-शाकोत्कं वर्ज्यम् ॥ ६२॥ Bhojanamahitam vidyātpunarasyoshnīkrtam rūksham Atilavanamamlayuktam kadaśanaśākotkam varjyam Food heated again, dry, having too...

Read More

Hathayoga 1-61

Foods injurious to a Yogî कट्वाम्ल-तीक्ष्ण-लवणोष्ण-हरीत-शाक- सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान् । आजादि-मांस-दधि-तक्र-कुलत्थकोल- पिण्याक-हिङ्गु-लशुनाद्यमपथ्यमाहुः ॥ ६१॥ Katvāmlatīkshnalavanoshnaharītaśāka...

Read More

Hathayoga 1-60

सुस्निग्ध-मधुराहारश्चतुर्थांश-विवर्जितः । भुज्यते शिव-सम्प्रीत्यै मिताहारः स उच्यते ॥ ६०॥ Susnighdhamadhurāhāraśchaturthāmśavivarjitah Bhujyate śivasamprītyai mitāhārah sa uchyate Abstemious feeding is that in which 3⁄4...

Read More

Hathayoga 1-59

ब्रह्मचारी मिताहारी त्यागी योग-परायणः । अब्दादूर्ध्वं भवेद्सिद्धो नात्र कार्या विचारणा ॥ ५९॥ Brahmachārī mitāhārī tyāghī yogaparāyanah Abdādūrdhvam bhavedsiddho nātra kāryā vichāranā By regular and close attention...

Read More

Hathayoga 1-58

आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानमभ्यासानुक्रमो हठे ॥ ५८॥ Āsanam kumbhakam chitram Mudrākhyam karanam tathā Atha nādānusandhānamabhyāsānukramo hathe The Nâdis should be cleansed of their...

Read More

Hathayoga 1-57

एवमासन-बन्धेषु योगीन्द्रो विगत-श्रमः । अभ्यसेन्नाडिका-शुद्धिं मुद्रादि-पवनी-क्रियाम् ॥ ५७॥ Evamāsanabandheshu yogīndro vighataśramah Abhyasennādikāśuddhim mudrādipavanakriyām The expert Yogîs call this Gorakśa âsana....

Read More

Hathayoga 1-55 1-56

The Bhadrâsana अथ भद्रासनम् गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिप्ते । सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे ॥ ५५॥ पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्व-व्याधि-विनाशनम् ।...

Read More

Hathayoga 1-54

सिंहासनं भवेदेतत्पूजितं योगि-पुङ्गवैः । बन्ध-त्रितय-सन्धानं कुरुते चासनोत्तमम् ॥ ५४॥ Simhāsanam bhavedetatpūjitam yoghipungghavaih Bandhatritayasandhānam kurute chāsanottamam This is Simhâsana, held sacred by the best of...

Read More

Hathayoga 1-53

हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्त-वक्तो निरीक्षेत नासाग्रं सुसमाहितः ॥ ५३॥ Hastau tu jānvoh samsthāpya Svāngghulīh samprasārya cha Vyāttavaktro nirīksheta nāsāghram susamāhitah Place the...

Read More

Hathayoga 1-52

The Simhâsana अथ सिंहासनम् गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके ॥ ५२॥ Atha simhāsanam Ghulphau cha vrshanasyādhah Sīvantyāh pārśvayoh kshipet Dakshine...

Read More

Hathayoga 1-51

पद्मासने स्थितो योगी नाडी-द्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ ५१॥ Padmāsane sthito yogī nādīdvārena pūritam Mārutam dhārayedyastu sa mukto nātra samśayah The Yogî who, sitting with Padmâsana,...

Read More

Hathayoga 1-50

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्ममासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन्पूरितं न्यञ्चन्प्राणमुपैति बोधमतुलं शक्ति-प्रभावान्नरः ॥ ५०॥ Krtvā samputitau karau...

Read More

Hathayoga 1-49

इदं पद्मासनं प्रोक्तं सर्व-व्याधि-विनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ ४९॥ Idam padmāsanam proktam sarvavyādhivināśanam Durlabham yena kenāpi dhīmatā labhyate bhuvi This is called the Padmâsana, the...

Read More
Loading

Close