गोविन्दः – भोः महाशय ! अत्र किम् अन्वेषणं कुर्वन् अस्ति एवम् ?

वृद्धः – मम अङ्गुलीयकम् ।

गोविन्दः – तत् अत्रैव पतीतम् आसीत् किम् ?

वृद्धः- नैव । तस्य वृक्षस्य अधः पतीतम् आसीत्, तत्र अन्धकारः । परन्तु अत्र प्रकाशः अधिकः, अतः अत्रैव अन्वेषयन् अस्मि ।