आलस्यं हि मनुष्याणां परमशत्रुः!!

कश्चन ग्रामः!

तस्मिन् ग्रामे एकस्मिन् परिवारे सप्तसहोदराः आसन्!

ते सर्वे सहोदराः अत्यन्तम् अलसाः आसन्!

कदाचित् पायसं खादनीयम् इति तेषां मनसि इच्छा अभवत्!

ते कथञ्चित् पायसम् अपि कृतवन्तः!

परन्तु गृहे शर्करा नास्ति इति तैः अनन्तरं ज्ञातम्!

इदानीं कः आपणं गत्वा शर्कराम् आनयति इति तेषु विवादः सञ्जातः!

अनन्तरं तेषु अन्यतमः एकम् उपायं सूचितवान्!

सर्वासु स्थालिकासु पायसं पूरयित्वा तासां स्थालिकानां पुरतः वयं उपविशामः , यः एकमपि शब्दं उच्चारयति सः आपणं गच्छति इति!

ते अत्यन्तम् अलसाः खलु! अतः ते सर्वे अपि तद् अङ्गीकृतवन्तः स्थालिकानां पुरतः सर्वे मौनम् एव उपविष्टवन्तः !

तदानीं केचन कुक्कुराः तत्र आगतवन्तः, ते सर्वे मृताः इति मत्वा सर्वं पायसं खादितवन्तः!

अनन्तरं एकः कुक्कुरः तेषु सहोदरेषु अन्यतमस्य मुखस्य लेहनं आरब्धवान्!

तदा सः अत्यन्तं कुपितः अभवत्! उच्चैः चित्कारं कृत्वा उक्तवान् सर्वं पायसं यूयं खादितवन्तः तथापि न अभवत् किल?

इदानीं मामपि खादितुम् आगतवान् इत्युक्त्वा सः तान् सर्वान् कुक्कुरान् ताडितवान्!

तदा अन्ये सर्वे अपि उत्थाय एकस्वरेण उक्तवन्तः एषः सम्भाषणं कृतवान् एषः सम्भाषणं कृतवान् इति!

तेषां कोलाहलं श्रुत्वा गृहात् बहिः आगत्य तेषां पिता सर्वं ज्ञात्वा तेषु ज्येष्ठस्य कपोले चपेटिकां दत्वा उक्तवान् रे मूर्ख! तया शर्करा आनेतव्या आसीत् खलु!

युष्माकम् आलस्यकारणात् एव कुक्कुराः आगत्य सर्वं पायसं खादित्वा गतवन्तः!

आलस्यं हि मनुष्याणां परमशत्रुः इति!

ततः ज्येष्ठः क्षमां याचितवान् अन्ये सर्वे अपि क्षमां याचितवन्तः!

तत्पश्चात् ते सर्वे आलस्यं त्यक्त्वा परिश्रमेण कार्यं आरब्धवन्तः!

🌹🌹

-प्रदीपः!!