https://www.youtube.com/watch https://indegenerique.be?v=GZcLtNVoJAs

माता नित्यं बोधयति
माता नित्यं स्नापयति ।
सानन्दं सा बहुवर्णाङ्कित-
वस्त्रं मां परिधारयति ॥

माता चुम्बनमर्पयति
हृद्यं भोज्यं भोजयति ।
अङ्के मामुपवेशयति सा
साधुकथां बहु श्रावयति ॥

गानं मधुरं गायति मन्दं
मामपि वारं गापयति ।
राक्षसकथया भाययति मां
शीघ्रं वक्षसि लालयति ॥

अङ्णमध्ये स्थापयति
क्रीडायै बहु प्रेरयति ।
धावनकर्मणि योजयति
मां वारं वारं जापयति ॥

शुचिविषयान् मां वेदयति
पर्यङ्के मां शाययति ।
गत्वा गत्वा स्वापयति मां
चुम्बनमधरे अर्पयति ॥

माता दैवतमस्माकं
स्निह्यतु तस्यामतिमधुरम् ।
प्रीणातु तां मधुरैर्वचनैः
माता दैवतमस्माकम् ॥