संस्कृतेन पाठनं संस्कृताय जीवनम्
संस्कृतेन पाठनं संस्कृताय अर्पणम्

एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकम् उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे

संस्कृतेन पाठनं संस्कृताय जीवनम्
संस्कृतेन पाठनं संस्कृताय अर्पणम्

चिन्तितं व्रतमिदम् आचराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने pouvez trouver sur cette page

संस्कृतेन पाठनं संस्कृताय जीवनम्
संस्कृतेन पाठनं संस्कृताय अर्पणम्

संस्कृतेन चिन्तनं मानसोल्लासनम्
संस्कृतेन लेखनं सर्वकार्यसाधनम्
संस्कृतेन भाषणं भरतवर्षभूषणम्

संस्कृतेन पाठनं संस्कृताय जीवनम्
संस्कृतेन पाठनं संस्कृताय अर्पणम्