चतुरः शृगालः च वृद्धः सिंहः।

एकस्मिन् अरण्ये एकः वृद्धः सिंहः निवसति स्म।

सः सिंहः स्वयं मृगयां कृत्वा किमपि खादितुम् अशक्तः अभवत्।

इदानीं सिंहः वृद्धः जातः अस्ति, सः किमपि खादितुं न शक्नोति, अतः सः एकस्याः गुहायाः अन्तः एकस्मिन् कोणे उपविश्य मरणस्य प्रतीक्षां कुर्वन् अस्तीति वार्ता अरण्ये सर्वत्र प्रसृता अभवत्।

वने स्थिताः सर्वे पशवः चिन्तितवन्तः यतः अस्माकं महाराजः अस्ति अतः वयं सर्वे अपि तत्र गत्वा तं पश्यामः इति।

ते सर्वे पशवः तत्र गुहायाः समीपं गतवन्तः, एकैकं कृत्वा गुहायाः अन्तः प्रविष्टवान् आसीत्।

यः अन्तः गच्छति सः पुनः बहिः आगन्तुं न शक्नोति।

सः वृद्धः सिंहः तं गृहीत्वा खादति स्म इति।

एवमेव सः सिंहः बहून् पशून् खादित्वा पुनः स्वस्थः अभवत्।

सिंहः अस्वस्थः इति वार्तां श्रुत्वा एकः शृगालः अपि सिंहस्य गुहायाः समीपम् आगत्य भोः महाराज! भवान् कथम् अस्ति इति पृष्टवान्।

शृगालस्य वार्तां श्रुत्वा सिंहः शान्तस्वरेण उक्तवान् भोः शृगाल भ्रातः! अहं वृद्धः अभूवम्, चलितुं न शक्नोमि, अतः त्वं मम समीपम् आगच्छ किञ्चिद् वार्तालापं कुर्वः इति।

चतुरः शृगालः तदा सर्वं समीचीनतया परिशीलितवान् दृष्टवान् च ये पशवः गुहायाः अन्तः गतवन्तः आसन् ते पुनः बहिः न आगतवन्तः आसन्।

शृगालः तदा सिंहम् उक्तवान् अहं भवतः समीपं न गच्छामि भोः। यतः ये पशवः गुहायाः अन्तः प्रविष्टवन्तः आसन् तेषाम् आगमनस्य पादचिह्नं न दृश्यते। भवान् तान् सर्वान् खादितवान्, अतः अहं गच्छामि इत्युक्त्वा सः शृगालः ततः निर्गतवान्।

प्रदीपः!