कश्चन दरिद्र ब्राह्मणः आसीत्!

slovenska-lekaren.com/

सः अत्यन्तं शिवभक्तः आसीत्!

प्रतिदिनं सः भगवतः शिवस्य पूजां करोति, ध्यानं करोति स्म!

परन्तु तस्य पत्नी अत्यन्तं कोपशीला आसीत्!

सा सर्वदा स्वीयां पतिं निन्दति स्म!

भवान् आदिनं शिवस्य पूजां करोति परन्तु शिवः अस्माकं किं करोति, अस्माकं दरिद्रता एव न दूरीभवति !

अस्माकं दरिद्रता दूरीभवेत् तदर्थं भवान् शिवस्य पुरतः प्रार्थनां करोतु इति सा उक्तवती!

परन्तु सः ब्राह्मणः तथा न कृतवान्, केवलं श्रद्धया भक्त्या एव भगवतः शिवस्य पूजां कुर्वन् आसीत्!

एकदा ब्राह्मणस्य भक्तिं श्रद्धां च दृष्ट्वा संतुष्टः भगवान् शिवः कर्मकरस्य वेषं धृत्वा तस्य गृहम् आगतवान्!

सामान्य कर्मकरः इव सः ब्राह्मणः तस्य पत्नी च तेन सह व्यवहारं कुरुतः स्म!

कर्मकरः उक्तवान्! अहम् अत्रैव तिष्ठामि भवतोः सेवां च करोमि इति!

एकदा सः ब्राह्मणः ग्रामात् बहिः अन्यत्र गतवान्, सः कर्मकरः अपि तेन ब्राह्मणेन सह गतवान्!

पादाभ्यां गत्वा गत्वा सः ब्राह्मणः श्रान्तः अभवत्! तस्य जलपिपासा अभवत्!

सर्वत्र वनम् एव कुत्रापि जलम् एव न दृश्यते!

ब्राह्मणः कर्मकरम् उक्तवान् कुतश्चित् जलम् आनयतु इति!

कर्मकरः तदा किञ्चित् दूरं गत्वा तस्य जटातः गङ्गाजलम् आनीय तस्मै ब्राह्मणाय दत्तवान्!

किञ्चित् जलं पीत्वा अस्य जलस्य आस्वादं गङ्गाजलम् इव अस्ति! भवान् कुतः आनीतवान् इति ब्राह्मणः पृष्टवान्!

अनतीदूरे एकस्याः नद्याः आनीतवान् इति सः कर्मकरः उक्तवान्!

अत्र कुत्रापि नदी नास्ति, भवान् मिथ्या वदति! सत्यं वदतु नो चेत् अहं जलमेव न पिबामि इति ब्राह्मणः उक्तवान्!

तदा कर्मकरः भगवतः शिवस्य रूपं तस्मै दर्शयितवान्!

भगवन्तं शिवं दृष्ट्वा सः ब्राह्मणः नितरां संतुष्टः परन्तु कर्मकरस्य वेषं धृत्वा किमर्थम् आगतवान् अतः सः खिन्नः अपि अभवत्! भगवन्तं प्रणम्य सः पृष्टवान्!

भगवान् उक्तवान्! मम एतत् रहस्यं भवान् यावत् पर्यन्तं न उद्घाटयति तावत् पर्यन्तम् अहं भवतः गृहे एव स्थास्यामि इति!

तस्मिन् एव समये ततः सः ब्राह्मणः भगवता शिवेन सह पुनः गृहं प्रत्यागतवान् !

पुनश्च अन्यस्मिन् दिने गृहात् बहिः गतवान्! सः कर्मकरः गृहे एव आसीत्!

किञ्चित् कालात् परं गृहे स्थिता ब्राह्मणस्य पत्नी कर्मकरेण सह विवादं कृतवती आसीत्!

सा सम्मार्जन्या भगवन्तम् एव ताडितवती आसीत्!

तदा एव सः ब्राह्मणः आगत्य सर्वं दृष्टवान् उक्तवान् च हे भाग्यवते! भवती किं कृतवती? अनर्थं कृतवती, साक्षात् भगवन्तम् एव ताडितवती इत्युक्त्वा सः विषादेन उपविष्टवान्!

तदा भगवान् शिवः तस्य वचनानुसारं ततः गतवान्!

दुःखितः सः ब्राह्मणः तदारभ्य पुनः भगवतः शिवस्य पूजां ध्यानं च कुर्वन् तस्य जीवनं यापितवान्!

🌺🌷

-प्रदीपः