एकस्मिन् वने केचन चोराः आसन्!

ते वने एकस्मिन् कुटीरे निवसन्ति स्म!

प्रतिदिनं ते चोराः लुण्ठनम्, हननम् इत्यादिकं पापकार्यं कुर्वन्ति स्म!

तस्मिन् मार्गे ये जनाः गच्छन्ति तान् गृहीत्वा हत्वा तेभ्यः धनानि सम्पादयन्ति स्म https://indegenerique.be!

एतां वार्तां कदाचित् राजा श्रुतवान् आसीत्!

तान् चोरान् ग्रहीतुं राजा भटान् प्रेषितवान् आसीत्!

बहवः भटाः आगतवन्तः आसन्! ते भटाः सर्वान् दुष्टान् गृहीत्वा राजास्थानं नीत्वा कारागारे स्थापितवन्तः आसन्!

केभ्यश्चिद् दिनेभ्यः पश्चात् तस्मिन् मार्गे एकः साधुः आगतवान् आसीत्!

सः तं कुटीरम् अपि दृष्टवान्!

कुटीरं रिक्तम् आसीत्!

कुटीरं रिक्तं दृष्ट्वा सः तदारभ्य तस्मिन् कुटीरे निवासम् आरब्धवान्!

तस्मिन्नेव कुटीरे सः तपः अपि आचरति स्म!

एकदा कश्चन युवकः पत्न्याः सह तस्मिन् मार्गे गच्छन् आसीत्! सहसा वृष्टिः आगता आसीत्!

तस्मात् कारणात् सः युवकः पत्न्याः सह किञ्चित् कालं तस्मिन् कुटीरे विश्रामं कृतवान्!

साधुः नेत्रे निमील्य तपः कृतवान् आसीत्!

नेत्रे उन्मील्य तौ उभौ दृष्ट्वा साधोः मनसि विकारः उत्पन्नः अभवत्!

साधुः चिन्तितवान् यत् युवकस्य इयं पत्नी मया वशीकर्तव्या इति!

तदा वृष्टिः अपि शान्ता अभवत्! सः युवकः पत्न्याः सह ततः प्रस्थितवान्!

तदा साधुः आक्रोशं कृत्वा उच्चैः भोः! तत्रैव तिष्ठताम् अन्यथा अहं हनिष्यामि इति!

साधोः वचनं श्रुत्वा युवकस्य महद् आश्चर्यम् अभवत्! सः तत्रैव स्थितम् अभवत्!

साधुः धावित्वा तयोः समीपं गतवान्!

परन्तु तयोः पुरतः गत्वा तस्य साधोः मनः परिवर्तनम् अभवत्!

सः साधुः चिन्तितवान् यत् अहं किमर्थम् एवम् आचरणं कृतवान् इति!

तदा सः क्षमायाचनां कृत्वा पुनः कुटीरम् आगतवान्!

कुटीरम् आगमनात् परं पुनः तस्य मनः परिवर्तनम् अभवत्!

पुनः आक्रोशं कृत्वा उच्चैः उक्तवान्- भोः तत्रैव तिष्ठताम् अन्यथा मारयिष्यामि इति!

पुनः साधुः धावित्वा तयोः समीपं गतवान्!

अहो आश्चर्यम्! तदा अपि साधोः मनः परिवर्तनम् अभवत्!

किमर्थम् एवं भवति इति सः साधुः चिन्तितवान्!

तदा सः युवकः उक्तवान्- हे साधो! एतस्य रहस्यं किम् इति अहं सम्यक् जानामि!

मम गृहं तु अत्रैव निकटे अस्ति अतः जानामि!

पूर्वम् अस्मिन् कुटीरे केचन चोराः आसन्! ते प्रतिदिनं चौरकार्यम्, लुण्ठनम्, हननम् इत्यादिकं पापकार्यं कुर्वन्तः आसन्!

अस्मिन् कुटीरे एव ते निवासं कृतवन्तः आसन्!

इदानीं तान् अस्माकं राजा कारागारं प्राविष्टवान्!

एतच्छ्रुत्वा साधुः सर्वं ज्ञातवान् तस्मात् सः अन्यत्र निर्गतवान् च!!

🌹

-प्रदीपः!!