एकदा कुबेरः यज्ञं कर्तुम् इष्टवान्!

यज्ञे सर्वे जनाः ,गन्धर्वाः, देवाः च आगच्छेयुः अतः सः सर्वेभ्यः निमन्त्रणं दत्तवान्!

अन्ते च सः कैलाशं शिवस्य समीपं गत्वा शिवाय अपि निमन्त्रणं दत्तवान्!

भगवान् शिवः ध्यानमग्नः आसीत्! भगवान् शिवः उक्तवान् अहं गन्तुं न शक्नोमि, पार्वतीं पृच्छतु सा गच्छेत्!

तदा कुबेरः पार्वतीं पृष्टवान्! देवी पार्वती अपि नाङ्ग्यकरोत् ! देवी पार्वती उक्तवती- भगवान् शिवः न गच्छति चेत् अहमपि न गच्छामि!

भवान् मम पुत्रं गणेशं नयतु सः गच्छेत् इति!

तदा कुबेरः गणेशं प्रार्थितवान्!

गणेशः अङ्गीकृतवान् , अस्तु अहं गच्छामि इति!

तत्क्षणम् एव गणेशः कुबेरस्य गृहं गतवान्!

तदानीं यज्ञस्य आयोजनं न अभवत्, निमन्त्रित कोऽपि जनः न आगतवान् आसीत्!

परन्तु..

गणेशः तत्र गत्वा कुबेरम् उक्तवान्- अहं बुभुक्षा अस्मि मह्यं भोजनं ददातु इति!

तदा कुबेरः विनम्रनिवेदनं कृत्वा सर्वे आगच्छन्तु किञ्चित् कालानन्तरं भवतः भोजनं कारयिष्यामि इति उक्तवान्!

तदा गणेशः कुपितः अभवत्!

इदानीमेव मह्यं भोजनं ददातु अन्यथा अहम् इतः गच्छामि इति उक्तवान!

कुबेरस्य उपायः नासीत्!

तदा तस्मै गणेशाय भोजनम् आनीय दत्तवान्!

गणेशः भोजनं प्राप्य शीघ्रं शीघ्रं खादितवान्!

पुनः भोजनम् आनयतु इति आदिष्टवान्!

कुबेरः तस्मै पुनः भोजनं दत्तवान्!

एवं कृत्वा कुबेरस्य गृहे यद् भोजनं निर्मितम् आसीत् तत् सर्वं गणेशः खादितवान्!

इतोपि मम क्षुधा शान्ता न अभवत्, भोजनम् आनयतु इति पुनः आदिष्टवान् गणेशः!

सर्वं भोजनं समाप्तम् आसीत्!

कुबेरः तदा गणेशस्य पुरतः क्षमां प्रार्थितवान्!

परन्तु गणेशः इदानीम् अहं त्वां खादिष्यामि इति उक्तवान्!

कुबेरः तदा भयेन कैलाशं प्रति धावितवान् !

तस्य पृष्ठतः गणेशः अपि तां ग्रहीतुं धावितवान् !

भगवतः शिवस्य पुरतः शिवं नमस्कृत्य हे भगवन्! मां रक्षतु!

भवतः पुत्रः मां खादिष्यति , तस्मात् रक्षतु भगवन् इति!

तदा पार्वती मृदु हसित्वा उक्तवती- हे कुबेर! चिन्ता न कार्या!

माता पार्वती तदा गणेशाय भोजनं दत्त्वा तस्य क्षुधां शान्तां कृतवती!

कुबेरस्य अहंकारः आसीत् यत् त्रिलोके स्थितेभ्यः सर्वेभ्यः अहं भोजनं दास्यामि इति!

कुबेरस्य अहंकारः तदा एव अपगतः अभवत् https://indegenerique.be!!

🌷🌹

-प्रदीपः