एकः राजा आसीत्! सः अत्यन्तं दयालुः आसीत्!

एकदा राजा पूजार्थं भगवतः शिवस्य मन्दिरं गतवान्!

मन्दिरे तेन द्वौ भिक्षुकौ दृष्टौ https://southafrica-ed.com/!

तौ भिक्षुकौ प्रतिदिनं मन्दिरे एव तिष्ठतः स्म!

एकः भिक्षुकः मन्दिरस्य दक्षिणतः उपविशति अपरश्च मन्दिरस्य वामतः उपविशति स्म!

यदा राजा भगवतः शिवस्य पूजां आरब्धवान् तदा तौ भिक्षुकौ अपि भगवतः प्रार्थनां आरब्धवन्तौ!

एकः वदति हे भगवन्! भवान् राज्ञे बहूनि दत्तवान् मह्यम् अपि ददातु इति!

अपरः राजानं वदति हे राजन्! भगवान् भवते बहूनि दत्तवान् अतः किञ्चित् मह्यमपि ददातु इति!

भिक्षुकयोः एकः भगवतः याचते अपरः च राज्ञः याचते स्म!

राजा किमपि अनुक्त्वा गृहं गतवान्!

गृहं गत्वा राजा एकस्मिन् घटे क्षीरं पूरयित्वा तस्मिन् स्वर्णमुद्रां स्थापितवान्!

तदनन्तरं मन्त्रिणम् आहूय मन्त्रिणे क्षीरेण पूर्णं घटं दत्त्वा उक्तवान् हे मन्त्रिन्! भवान् एतं घटं नित्या मन्दिरं गच्छतु , तत्र यः भिक्षुकः मन्दिरस्य वामतः उपविशति तस्मै दत्त्वा आगच्छतु इति!

मन्त्री तदा मन्दिरं गत्वा दृष्टवान् तत्र भिक्षुकद्वयम् अस्ति! यः मन्दिरस्य वामतः आसीत् तस्मै क्षीरेण पूर्णं घटं दत्तवान्!

सः भिक्षुकः राज्ञः क्षीरं प्राप्य आनन्देन पातुम् आरब्धवान्!

यदा तस्य उदरं पूर्णम् अभवत् तदा अपराय भिक्षुकाय दत्तवान् उक्तवान् च- भगवान् न ददाति राजा एव ददाति!

अहं राज्ञः याचितवान् आसम् अतः मह्यं दत्तवान्!

नयतु किञ्चित् क्षीरम् अस्ति तत् पिबतु इति!

सः अपि भिक्षुकः घटं स्वीकृत्य अवशिष्टं यत् क्षीरम् आसीत् तत् सर्वं पीतवान्!

घटस्य अधः स्वर्णमुद्राम् आसीत् तदपि सः दृष्टवान् मौनेन च उत्थाय स्वगृहं गतवान्!

अनन्तरे दिने पुनः राजा मन्दिरं गत्वा दृष्टवान् तत्र एकः एव भिक्षुकः उपविशन् आसीत्!

राजा तं पृष्टवान्- अपरः भिक्षुकः कुत्र इदानीम्?

भिक्षुकः उक्तवान् राजन्! सः अद्य न आगतवान्! सः तु मूर्खः एव यत् सः भगवतः किमपि याचते स्म यतोहि भगवान् कथं दास्यति इति!

अहं क्षीरं पीत्वा अवशिष्टं क्षीरं यद् आसीत् तत् तस्मै दत्तवान् आसम् इति!

तस्य वचनं श्रुत्वा राजा मृदुः हसित्वा उक्तवान्- आम् सत्यम्, तस्मै भिक्षुकाय तु भगवान् एव दत्तवान् इति!!

🌹🌷

-प्रदीपः