एकदा एकः शुनकः वनं गच्छति स्म! तदा सः वने एकं सिंहं दृष्टवान्!

सिंहं दृष्ट्वा सः शुनकः कम्पते स्म! सः चिन्तितवान् यत् इदानीं तु मम जीवनं समाप्तम् इति!

तदा सः दृष्टवान् कानिचन पशूनाम् अस्थीनि भूमौ पतितानि आसन्!

तदा सः शुनकः एकं अस्थिं गृहीत्वा चुषणं आरब्धवान् उक्तवान् च यदि सिंहस्य मांसं अप्राप्स्यं तर्हि इतोऽपि स्वादिष्टम् अभविष्यत्!

शुनकस्य प्रलापं श्रुत्वा सिंहः चिन्तितः अभवत् buscar!

सः सिंहः चिन्तितवान् यत् एषः शुनकः सिंहमपि हत्वा खादति इति भाति! अतः इतः मम पलायनम् एव वरम्!

एवं सः सिंहः चिन्तयित्वा ततः पलायितवान्!

वृक्षस्य उपरि उपविशन् एकः वानरः तत् सर्वं दृष्टवान् आसीत्!

वानरः चिन्तितवान् इदानीं सुयोगः एव अस्ति यत् शुनकस्य सर्वं चातुर्यं सिंहं श्रावयिष्यामि , तेन एव सिंहेन सह मम मित्रतामपि भविष्यति एवञ्च तस्मात् सिंहात् मम भयमपि दूरीभविष्यति आजीवनाय इति!

तदा झटिति वृक्षात् अवतीर्य धावित्वा सिंहस्य समीपं गत्वा सर्वं उक्तवान्!

वानरात् सर्वं वृत्तान्तं श्रुत्वा सिंहः कुपितः सन् उच्चैः गर्जितवान् वानरम् उक्तवान् च – मया सह चल अहं तम् इदानीं हनिष्यामि इति

सिंहः पुनः वानरेण सह शुनकस्य समीपम् आगतवान्, किञ्चित् दूरे आसीत्!

तदानीं पुनः सिंहं दृष्ट्वा शुनकः एकां बुद्धिं चिन्तयित्वा सः अपि उच्चैः उक्तवान्- बहुकालः अभवत् , सिंहम् आनेतुम् अहं वानरं प्रेषितवान् परन्तु इदानीमपि सः नागतवान्!

इदानीं शुनकस्य वचनं श्रुत्वा सिंहः भीतः अभवत्! वानरः एव मां मारयितुं आनीतवान्!

सः सिंहः इदानीं भयेन ततः द्रूतग्त्या पलायनं कृत्वा गतवान्!

अवधेयम् – विपत्तौ परिस्थितौ अपि अस्माभिः आत्मविश्वासः न न्यूनीकरणीयः इति!

🌷🌹

प्रदीपः!!