कश्चन धनिकः आसीत्!

सः अत्यन्तं भगवद् भक्तः आसीत्!

एकदा तस्य मनसि एकः देवालयः निर्मातव्यः इति इच्छा उत्पन्ना!

अतः सः स्वस्य गुरोः समीपं गतवान्! गुरोः समीपं स्वीयम् अभिलाषं निवेदितवान् च!

गुरुः पृष्ठवान- भोः! कति जनेभ्यः कियन्ति रुप्यकाणि वा भवता सङ्गृहीतानि देवालयनिर्माणार्थम् इति!

तदा धनिकः उक्तवान् प्रभो! मम अन्यस्मात् कस्मादपि धनसंग्रहणस्य आवश्यकता नास्ति, यतः अहम् एकः एव कोटिरुप्यकाणि व्ययीकृत्य देवालयं निर्मातुं शक्नोमि इति!

तदा गुरुः उक्त्तवान्- एतत् समीचीनं न, भवान् श्रीरामं जानाति खलु ! सः साक्षात् विष्णोः अवतारः आसीत्!

सः एकः एव समस्तराक्षसकूलं नाशयितुं तस्य भगवतः रामस्य सामर्थ्यम् आसीत् परन्तु तथापि सः वानराणां सङ्घटनं कृतवान् तत्पश्चात् युद्धं कृत्वा रावणस्य समस्तराक्षसानां च संहारं कृतवान्!

एवमेव यत्किमपि महत्कार्यं साधनीयं चेत् बहूनां भागः यथा स्यात् तथा करणीयम्!

पुण्यस्य फलमपि यथा बहुभिः प्राप्येत तथा चिन्तनीयम्!

अन्यथा अहम् एकः एव एतत् सर्वं कृतवान् इति अहं भावः उद्भवेत्!

गुरोः वचनं श्रुत्वा सः धनिकः सम्भूयकार्यकरणस्य महत्वम् अवगतवान्! तदनन्तरं सः उच्चनीचभेदं विना जातीभेदं विना सर्वस्मात् अपि गृहात् धनसंग्रहणं कृत्वा देवालयस्य निर्माणं कारितवान्!

🌹🌷

-प्रदीपनाथ:!!