एकः शिल्पकारः आसीत्!

सः शिलाभिः शिल्पनिर्माणं कृत्वा विक्रयणं करोति स्म!

एकदा सः एकां विशिष्टां शिलां प्राप्तवान्!

सः तां शिलां गृहम् आनीय तस्याः शिलायाः भागद्वयं कृतवान्!

एकं भागं स्वीकृत्य सः शिल्पनिर्माणम् आरब्धवान्!

यदा यदा सः शिलायाः अनपेक्षितभागं दूरीकर्तुं मुद्गरेण ताडयति स्म तदा तदा सा शिला किञ्चित् किञ्चित् दूरं गच्छति स्म!

सः बहु प्रयत्नं कृतवान् परन्तु तया शिलया सः शिल्पनिर्माणं कर्तुं न शक्तवान्!

तदा सः शिलायाः अपरं भागं स्वीकृत्य शिल्पनिर्माणम् आरब्धवान्!

केभ्यश्चिद् दिनेभ्यः पश्चात् सः एकम् उत्तमं गणेशविग्रहं निर्मितवान् !

जनाः तं विग्रहं क्रीत्वा नीत्वा एकस्मिन् मन्दिरे स्थापितवन्तः एवञ्च शिलायाः अपरं भागं मन्दिरस्य पुरतः स्थापितवन्तः नारिकेलपञ्चनार्थम् !

जनाः मन्दिरम् आगत्य गणेशाय नैवेद्यं समर्पयन्ति, मालाम् अर्पयन्ति पूजां च कुर्वन्ति!

बहिः यां शिलां स्थापितवन्तः तस्याः शिलायाः उपरि जनाः प्रातःकालात् सायंकालपर्यन्तं नारिकेलपञ्चनं कुर्वन्ति!

एकदा बहिः स्थिता सा शिला गणेशविग्रहम् उक्तवती- भवतः कियत् सौभाग्यं यत् जनाः भवतः पूजां कुर्वन्ति भवते नैवेद्यं समर्पयन्ति, मालाम् अर्पयन्ति, नमस्कारं च कुर्वन्ति परन्तु मम का दशा अस्ति इति भवान् पश्यतु ! यतोहि आवाम् एकस्याम् एव शिलायाम् आस्व !

तदा गणेशविग्रहः उक्तवान्- वस्तुतः सः शिल्पकारः भवतीम् एव प्रथमं शिल्पनिर्माणार्थं स्वीकृतवान् आसीत्!

भवती सिद्धा नासीत् यत् यदा यदा सः मुद्गरेण ताडयति स्म तदा तदा भवती दूरं दूरं गतवती आसीत्! मुद्गरस्य ताडनं भवती सोढुं न शक्तवती आसीत्!

गणेशविग्रहस्य वचनं श्रुत्वा तस्याः शिलायाः लज्जा अभवत्!

सा चिन्तितवती यत् लोके ये उत्तमाः भवन्ति ते निश्चयेन तत् पूर्वं त्यागं कुर्वन्ति इति!

🌷🌺

-प्रदीपः!!