आन्ध्रप्रदेशस्य कस्मिंश्चित् अग्रहारे देवशर्मा नाम विप्रः प्रतिवसति स्म। तस्य मल्लिनाथनाम्न: पुत्रः आसीत्। मल्लिनाथः अतीव अलसः आसीत्। तं पाठयितुं पित्रा कृतः सर्वोऽपि प्रयत्नः विफलतां गतः।

निरक्षरस्य तस्य विवाहः समुचितकाले प्रवर्तितः। तस्य श्यालाः सर्वे विद्वांसः आसन्। ते एकदा तेषां गृहे पण्डितपुत्रं मल्लिनाथम् उपाहसन्। तेन तस्य भार्या नितरां दुःखिता समभवत्। सा सपदि भर्तारं स्वीकृत्य स्वगृहं प्रति प्रस्थिता।

मल्लिनाथः मार्गे दृष्टं पालाशकुसुममेकं पत्न्यै दर्शयित्वा तस्य शोभां प्राशंसत्। तदा विदुषी तत्पत्नी चाणक्यनीतेः पद्यमेकम् उदगिरत्।

“रूपयौवनसम्पन्ना, विशालकुलसम्भवाः|

विद्याहीना न शोभन्ते, निर्गन्धा इव किंशुकाः ||”

अपमानेन जर्जरिते मल्लिनाथहृदये तस्याः उक्तिशरः सम्यगेव लग्नः। सः गृहमार्गं सन्त्यज्य गुरुकुलपथम् अध्यतिष्ठत्। गुरुकुले श्रद्धया अध्ययनं कृत्वा पाण्डित्यमवाप्नोत्।

एकस्मिन्नहनि भोजनसमये सः गुरुपत्नीमवोचत् – “अम्ब https://southafrica-ed.com/! अद्य भोजनं किञ्चित् तिक्तमिव भासते ” इति।

तदा गुरुः मृदुहसन् तमवादीत् – “वत्स, मन्निर्देशनेन मज्जाया प्रतिदिनं तव भोजने निम्बरसं योजयति स्म। परन्तु अध्ययनव्यग्रः त्वं कदापि नावगतवान्। अद्य त्वया तल्लक्षितम् इत्युक्ते तव अध्ययनं सम्पन्नमित्यर्थः। सर्वविद्या निष्णातः त्वम् अधुना स्वगेहं गन्तुमर्हसि” इति।

यथाशक्ति गुरुदक्षिणां समर्प्य गुरुकुलान्निर्गतः मल्लिनाथः भरतखण्डस्य नैकान् विद्वत्तल्लजान् वादे पराजित्य “मल्लीनाथसूरिः” इति ख्यातिं महामहोपाध्यायः इत्युपाधिञ्च अविन्दत।

तेन पञ्चमहाकाव्यानां टीका, नैकाः स्वतन्त्रकृतयश्च विरचिताः। पञ्चमहाकाव्यानामध्ययनेप्सूनाम् मल्लिनाथस्य टीका अद्यत्वेऽपि वीथीदीपवत् विद्योतते।

✍🏻 महाबलभट्टः, गोवा।