गङ्गातीरे एकः साधुः आसीत् ।सः बहु उपकारं करोति स्म। यः अपकारं करोति तस्यापि उपकारं करोति स्म। प्रतिदिनं सः गङ्गानद्यां स्नानं करोति स्म। एकस्मिन् दिने सः स्नानं कर्तुं नदीं गतवान् । नदीप्रवाहे एकं वृश्चिकं दृष्टवान् । तं हस्तेन गृहितवान् ।तीरे स्थापयितुं प्रयत्नं कृतवान् । किन्तु वृश्चिकः साधुपुरुषस्य हस्तम् अदशत्। साधुः वृश्चिकं त्यक्तवान् ।वृश्चिकः जले अपतत्। पुनः साधुः वृश्चिकं गृहित्वा तीरे स्थापयितुं प्रयत्नं कृतवान् । पुनः वृश्चिकः हस्तम् अदशत्। एवम् अनेकवारं साधुः वृश्चिकं गृहितवान्। वृश्चिकः अपि अदशत्।

नदीतीरे कश्चन पुरुषः आसीत् ।”साधुमहाराज! अयं वृश्चिकः दुष्टः। सः पुनः पुनः दशति। भवान् किमर्थं तं हस्ते वृथा स्थापयति ? वृश्चिकं त्यजतु ” इति उक्तवान् सः। “वृश्चिकः क्षुद्रः जन्तुः। दशनं तस्य स्वभावः। सः स्वस्वभावं न त्यजति। अहं तु मनुष्यः।अहं मम परोपकारस्वभावं कथं त्यजामि ?” इति साधुः तं पुरुषम् उक्तवान् ।

अतः यः अपकारिणाम् अपि उपकारं करोति सः एव साधुः भवति।