एकस्याः महिलायाः जीवने बह्व्यः समस्याः आगताः आसन्!

समस्यानां निवारणाय मया किं कर्तव्यम् इति सा चिन्तयित्वा एकस्य साधोः समीपं गतवती!

तत्र गत्वा सा साधुं सर्वं वृत्तान्तं श्रावितवती!

साधुः अपि सर्वं वृत्तान्तं श्रुत्वा किञ्चित् कालपर्यन्तं सम्यक् विचिन्त्य उक्तवान् पुत्रि! एतासां समस्यानां निवारणाय भवत्या कानिचन रुप्यकाणि व्ययीकरणीयानि !

सा महिला उक्तवती प्रभोः! कति कारकाणि अपेक्षितानि सन्ति?

साधुः उक्तवान् पुत्रि! अधिकं न अपेक्षितम्!

अस्माकं पुरातनमान्यतानुसारं त्रयत्रिंशत् देवाः सन्ति, तेषां सर्वेषाम् अपि देवानां कृते एकैकः पैसः भवत्या दातव्यः!

सा महिला अपि चतुरा एव, सा मनसि सम्यक् गणयित्वा ज्ञातवती यत् रुप्यकाणां समष्टिः त्रयत्रिंशत् लक्षरुप्यकाणि भवन्ति!

तदा सा महिला साधुम् उक्तवती प्रभोः! भवान् एकं कार्यं करोतु, भवान् एकैकस्य अपि देवस्य नाम उक्त्वा अग्रेसरतु अहमपि एकैकं पैसं स्थापयित्वा अग्रेसरामि इति!

तस्याः महिलायाः वचनं श्रुत्वा सः साधुः मूर्च्छितः अभवत्!

ज्ञातव्यं यत् महिलाः कदापि न अवहेलनीयाः नो चेत् भवताम् अपि इयं दशा भवेत्!

-प्रदीपनाथ!!