एकः राजा स्वस्य गुरवे उपायनरूपेण एकं दुकूलवस्त्रं दत्तवान्।

मार्गेण गच्छन् गुरुः एकं शीतार्तं भिक्षुकं दृष्ट्वा तं वस्त्रं भिक्षुकाय प्रदत्तवान्।

अपरेद्युः राजा तेनैव मार्गेण गच्छन् तं दुकूलवस्त्रं धारयन्तं भिक्षुकं दृष्टवान्।

गुरुः मम आदरेण दत्तं महार्घं वस्त्रं भिक्षवे दद्यात् इति राज्ञे नितराम् न अरोचत।

अपरस्मिन् वेलायां राज्ञा दत्तं बहुमूल्यं स्वर्णकङ्कणं गुरुणा राजप्रासादकर्मकराय दत्तं यतः तस्य कन्यायाः विवाहे धनस्य न्यूनता आसीत्।

तद्दृष्ट्वा राजा नितरां कुपितः। गुरुम् आहूय तेन पृष्टम्, “भवान् मया आदरेण दत्तानि वस्तूनि अन्येभ्यः किमर्थं समर्पयति? तेषां बहुमूल्यं भवान् नावगच्छति वा?”

गुरुः उक्तवान्, ” राजन्, दानं नाम स्वामित्वभावनायाः त्यागः। तम् अकृत्वा किमपि दत्तं तर्हि दानस्य पुण्यफलमेव न प्राप्नोति दानकर्ता। भवान् यद्यद् मह्यं दत्तवान् तेषु भवतः स्वामित्वभावना इतोपि अविच्छिन्ना। तर्हि तत् दानं कथम् कुतश्च तस्य शुभफलम्?”

राजा स्वस्य प्रमादम् अवगम्य गुरुं क्षमां अयाचत।

🌸