विवेकः च तस्य पञ्चनिमेषाः!

विवेकः तृतीयकक्षायाः छात्रः! सः शङ्करदेवशिशुनिकेतन-विद्यालये पठति!

सः महान् अलसः! प्रतिदिनं प्रातःकाले सः विलम्बेन शयनात् उत्तिष्ठति!

प्रातःकाले तस्य माता प्रतिदिनं तम् उत्थापयति परन्तु सः वदति पञ्चनिमेषेभ्यः अनन्तरम् उत्तिष्ठामि इति!

वार्षिकपरीक्षानन्तरं विद्यालयात् लोकयानेन तैः सर्वैः छात्रैः च शिक्षिका-शिक्षकैः शिवसागरः गन्तव्यः इति ते निश्चितं कृतवन्तः!

पूर्वस्मिन् दिने ते सर्वे छात्राः कुत्र कुत्र गन्तव्यम् इत्यस्य एकां सूचिं लिखितवन्तः आसन्! स्थानानां नामानि रङ्घरः, कारेङ्घरः, तलातलघरः इत्यादीनि स्थानानि!

तस्मिन् दिने प्रातःकाले षड् वादनम् अभवत्! विवेकस्य माता आगत्य तम् उत्थाप्य सा गृहकार्ये संलग्ना अभवत्! सः अपि उत्थाय घटीं दृष्ट्वा पञ्चनिमेषेभ्यः अनन्तरम् उत्तिष्ठामि इत्युक्त्वा इदानीं षड् वादनम् अभवत् इति चिन्तयित्वा पुनः शयनं कृतवान्!

सार्ध-सप्तवादनम् अभवत्! विवेकः शयनात् उत्थाय शीघ्रं स्नानादिकं समाप्य किमपि न खादित्वा विद्यालयं प्रति धावितवान्!

तस्य दुर्भाग्यं यत् सः यदा विद्यालयं गतवान् तदा सपाद-अष्टवादनम् अभवत्!

लोकयानं तु विद्यालयात् अष्टवादने प्रस्थितम् आसीत्!

तस्य विवेकस्य शिवसागरं प्रति गमनं नाभवत्!

विषादमनसा सः पुनः गृहं प्रत्यागतवान्!

तदा एव सः समयस्य मूल्यं ज्ञातवान्!

🌹🌹

-प्रदीपः!