वीर सुभाष चन्द्र बसु:!!

नेताजी सुभाषचन्द्र बसु महोदयस्य जन्म सप्तनवतिः अधिकम् अष्टादश शततमे वर्षे (१८९७) जनवरी मासस्य त्रयोविंशति दिनाङ्के उडीसायाः कटक नामके स्थाने अभवत्!

तस्य पितुः नाम जानकी नाथ बसुः मातुः नाम प्रभावती देवी आसीत्!

सुभाषस्य प्राथमिकी शिक्षा कटकनगरस्य एकस्मिन् आङ्ग्लविद्यालये अभवत्!

तत्र आङ्ग्लछात्राणां सङ्ख्याधिकाः आसन्!

ते सर्वदा भारतीयानाम् अपमानं कुर्वन्ति स्म!

परन्तु सः कदापि तेषां समक्षं न अनमत्!

तत्पश्चात् सः कोलकाता नगरस्य प्रेसीडेंसी विद्यालयात् स्नातक परास्नातक परीक्षाद्वयं प्रथमश्रेण्याम् उत्तीर्णः अभवत्!

तत्पश्चात् सः पुनः आई सी एस परीक्षायाम् अपि प्रथमश्रेण्याम् उत्तीर्णः अभवत्!

तस्य पितुः इच्छा आसीत् यत् सुभाषः उच्च अधिकारी भवतु परं सुभाषः आङ्ग्लशासकैः प्रस्तावितम् उच्च पदं न स्वीकृतवान्!

तस्य मनसि तु बाल्यकालात् एव आङ्ग्लशासकानां प्रति घृणा भावः आसीत्!

प्रिञ्स आँफ वेल्स नामकः आङ्ग्ल शासकः यदा भारतम् आगच्छत् तदा तस्य विरोधाय महान् जनसम्मर्दः गृहात् बहिः आगच्छत्! तस्य नेतृत्वमपि सुभाषः एव अकरोत्!

एकदा सः वेषं परिवर्त्य गृहात् बहिः निरगच्छत्! जापानदेशं गत्वा सः “आजाद् हिन्द् फौज” नामक सैन्यसङ्घटनस्य नेतृत्वम् अकरोत्!

युयं मह्यं स्वकीयं रक्तं प्रयच्छत , अहं युष्मभ्यं स्वतन्त्रतां प्रत्यर्पयिष्यामि इति तस्य उद्घोषः आसीत्!

जय हिंद वन्दे मातरम्!!

🇮🇳🌹🇮🇳

-प्रदीपः!!