श्लोकः
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११-१३॥

सन्धि विग्रहः
तत्र एकस्थम् जगत् कृत्स्नम् प्रविभक्तम् अनेकधा ।
अपश्यत् देव-देवस्य शरीरे पाण्डवः तदा ॥ ११-१३॥

श्लोकार्थः
पाण्डवः तदा अनेकधा प्रविभक्तम् कृत्स्नम् जगत्,
तत्र देव-देवस्य शरीरे एकस्थम् अपश्यत् ।

शब्दार्थः
तत्र  = there एकस्थं  = in one place जगत्  = the universe कृत्स्नं  = complete प्रविभक्तं  = divided अनेकधा  = into many अपश्यत्  = could see देवदेवस्य  = of the Supreme Personality of Godhead शरीरे  = in the universal form पाण्डवः  = Arjuna तदा  = at that time.

Meaning
11.13: Arjuna beheld the complete universe divided into many parts, but brought together in one place as one, in the body of God of gods.