श्लोकः
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६॥
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११-२७॥

सन्धि विग्रहः
अमी च त्वाम् धृतराष्ट्रस्य पुत्राः सर्वे सह एव अवनिपाल-सङ्घैः ।
भीष्मः द्रोणः सूत-पुत्रः तथा असौ सह अस्मदीयैः अपि योध-मुख्यैः ॥ ११-२६॥
वक्त्राणि ते त्वरमाणाः विशन्ति दंष्ट्रा-करालानि भयानकानि ।
केचित् विलग्नाः दशन-अन्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तम-अङ्गैः ॥ ११-२७॥

श्लोकार्थः
अमी च सर्वे धृतराष्ट्रस्य पुत्राः अवनिपाल-सङ्घैः सह एव,
तथा भीष्मः द्रोणः असौ सूत-पुत्रः अस्मदीयैः अपि योध-मुख्यैः
सह त्वाम् विशन्ति ।ते दंष्ट्रा-करालानि भयानकानि वक्त्राणि
त्वरमाणाः (विशन्ति), केचित् दशन-अन्तरेषु विलग्नाः चूर्णितैः
उत्तम-अङ्गैः (युक्ताः) सन्दृश्यन्ते ।

शब्दार्थः
अमी  = these च  = also त्वां  = You धृतराष्ट्रस्य  = of Dhritarashtra पुत्राः  = the sons सर्वे  = all सह  = with एव  = indeed अवनिपाल  = of warrior kings सङ्घैः  = the groups भीष्मः  = Bhishmadeva द्रोणः  = Dronacarya सूतपुत्रः  = Karna तथा  = also असौ  = that सह  = with अस्मदीयैः  = our अपि  = also योधमुख्यैः  = chiefs among the warriors वक्त्राणि  = mouths ते  = Your त्वरमाणाः  = rushing विशन्ति  = are entering दंष्ट्रा  = teeth करालानि  = terrible भयानकानि  = very fearful केचित्  = some of them विलग्नाः  = becoming attached दशनान्तरेषु  = between the teeth सन्दृश्यन्ते  = are seen चूर्णितैः  = with smashed उत्तमाङ्गैः  = heads.

Meaning
11.26: The sons of Dhrtarastra together with host of kings, enter into You. Bhishma, Drona, Suta Putra (Karna) and chief warriors on our side, (continued)
11.27: are rushing and entering your fearful (mouths) with formidable teeth. Some of them are caught between (your) teeth with heads crushed (to a pulp).