श्लोकः
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११-३०॥

सन्धि विग्रहः
लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः ।
तेजोभिः आपूर्य जगत् समग्रम् भासः तव उग्राः प्रतपन्ति विष्णो ॥ ११-३०॥

श्लोकार्थः
हे विष्णो! समन्तात् ज्वलद्भिः वदनैः समग्रान् लोकान्
ग्रसमानः (त्वं) लेलिह्यसे, तव उग्राः भासः तेजोभिः
समग्रम् जगत् आपूर्य प्रतपन्ति ।

शब्दार्थः
लेलिह्यसे  = You are licking ग्रसमानः  = devouring समन्तात्  = from all directions लोकान्  = people समग्रान्  = all वदनैः  = by the mouths ज्वलद्भिः  = blazing तेजोभिः  = by effulgence आपूर्य  = covering जगत्  = the universe समग्रं  = all भासः  = rays तव  = Your उग्रः  = terrible प्रतपन्ति  = are scorching विष्णो  = O all-pervading Lord.

Meaning
11.30: As you devour all people from all directions by Your flaming mouths, You are licking. Your terrible radiance filling the whole world is scorching it, O Vishnu ed-italia.com.