श्लोकः
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८॥
सन्धि विग्रहः
न तु माम् शक्यसे द्रष्टुम् अनेन एव स्व-चक्षुषा ।
दिव्यम् ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ११-८॥
श्लोकार्थः
अनेन एव स्व-चक्षुषा तु माम् द्रष्टुम् न शक्यसे, (अत एव)
दिव्यम् चक्षुः ते ददामि, मे ऐश्वरम् योगम् पश्य ।
शब्दार्थः
न = never तु = but मां = Me शक्यसे = are able द्रष्टुं = to see अनेन = with these एव = certainly स्वचक्षुषा = your own eyes दिव्यं = divine ददामि = I give ते = to you चक्षुः = eyes पश्य = see मे = My योगमैश्वरं = inconceivable mystic power.
Meaning
11.8: But thou cannot see Me with your own (two physical) eyes; I give you divine eyes to see My Yogam Aisvaram, My yogic power.