संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् ।
संस्कृते: प्रवर्धनाय दृढनिधिर्भवेदिदम् ॥

संस्कृतस्य महिमवर्णनेन नास्ति साधितम्
सततसम्भाषणेन तस्य जीवनं स्थिरम् ।
जनमुखेन भाषितं ननु जगति जीवितं
राजते चिरं समस्तराष्ट्रमान्यतास्पदम् ॥

संस्कृतस्य सेवनं मातृसेवासमम्
तेन सम्भाषणं वाङ्मातृपूजनम् ।
मातृभि: प्रवर्तनेन मातृभाषा परम्
सरलसम्भाषणेन लसति बालादृतम् ॥

राजपोषणात् पुरा नीतमिदं वैभवम्
लोकशक्तिकेन्द्रितं स्थास्यतीह केवलम् ।
शिक्षकास्तदर्थमेव त्यागशालिन: स्यु:
संस्कृतोज्जीवनाय प्राप्तजीवना ध्रुवम् ॥

  • गु. गणपय्यहोळ्ळः