श्लोकः
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥

सन्धि विग्रहः
मृत्युः सर्व-हरः च अहम् उद्भवः च भविष्यताम् ।
कीर्तिः श्रीः वाक् च नारीणाम् स्मृतिः मेधा धृतिः क्षमा ॥ १०-३४॥

श्लोकार्थः
सर्व-हरः मृत्युः, भविष्यताम् उद्भवः च अहम्
नारीणाम् च कीर्तिः श्रीः वाक् स्मृतिः मेधा धृतिः क्षमा च (अहं अस्मि)।

शब्दार्थः
10.34. मृत्युः  = death सर्वहरः  = all-devouring च  = also अहं  = I am उद्भवः  = generation च  = also भविष्यतां  = of future manifestations कीर्तिः  = fame श्रीः  = opulence or beauty वाक्  = fine speech च  = also नारीणां  = of women स्मृतिः  = memory मेधा  = intelligence धृतिः  = firmness क्षमा  = patience.

Meaning
10.34: I am all-devouring death and (am) the origin of future (beings). Among women (I am) fame, prosperity (Srih), speech, memory, intelligence, firmness and patience.