श्लोकः
सञ्जय उवाच।
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह।।२-९।।

सन्धि विग्रहः
सञ्जयः उवाच।
एवम् उक्त्वा हृषीकेशम् गुडाकेशः परन्तपः।
न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह।।२-९।।

श्लोकार्थः
सञ्जयः उवाच।
परन्तपः गुडाकेशः हृषीकेशम् एवम् उक्त्वा  ‘न योत्स्य’
इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह।

शब्दार्थः
सञ्जयः उवाच = Sanjaya said।
2.9 एवम्=thus उक्त्वा=speaking हृषीकेशम्=unto Krishna, the master of the senses गुडाकेशः=Arjuna, the master of curbing ignorance परन्तपः=the chastiser of the enemies न योत्स्य=I shall not fight इति=thus गोविन्दम्=unto Krishna, the giver of pleasure to the sensesउक्त्वा=saying तूष्णीम्=silent बभूव=became ह=certainly

Meaning
2.9: Sanjaya said (to Dhrtrastra): Having spoken thus to Hrisikesam (Krishna), Gudakesa (Arjuna) the conqueror of sleep said to Govinda (Krishna) “I will not fight” and became silent.