श्लोकः
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते।।६-३९।।

सन्धि विग्रहः
एतत् मे संशयम् कृष्ण छेत्तुम् अर्हसि अशेषतः।
त्वत् अन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते।।६-३९।।

श्लोकार्थः
हे कृष्ण! मे एतत् संशयम् अशेषतः छेत्तुम् अर्हसि;
हि त्वत् अन्यः अस्य संशयस्य छेत्ता न उपपद्यते।

शब्दार्थः
6.39 एतत्=this is मे=my संशयम्=doubt कृष्ण=O Krishna छेत्तुम्=to dispel अर्हसि=you are requestedअशेषतः=completely त्वत्=than you अन्यः=other संशयस्य=of the doubt अस्य=this छेत्ता=remover न=never हि=certainly उपपद्यते=is to be found

Meaning
6.39: O Krishna, You are worthy of and obligated to remove this doubt of mine completely because no one other than You is proven remover of this doubt.