श्लोकः
एतद्योनीनि भूतानि सर्वाणित्युपधारय।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।।७-६।।

सन्धि विग्रहः
एतत् योनीनि भुतानि सर्वाणि इति उपधारय।
अहम् कृत्स्नस्य जगतः प्रभवः प्रलयः तथा।।७-६।।

श्लोकार्थः
सर्वाणि भूतानि एतत् योनीनि इति, उपधारय। अहम् कृत्स्नस्य
जगतः प्रभवः तथा प्रलयः (अस्मि)।

शब्दार्थः
7.6 एतत्=these two natures योनीनि=whose source of birth भुतानि=everything created सर्वाणि=all इति=thus उपधारय=know अहम्=I कृत्स्नस्य=all-inclusive जगतः=of the world प्रभवः=the source of manifestation प्रलयः=annihilation तथा=as well as

Meaning
7.6: All entities have their source (Yoni or womb) in these two natures. Know it that I am the source of the universe and its dissolution.