श्लोकः
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु।।७-९।।

सन्धि विग्रहः
पुण्यः गन्धः पृथिव्याम् च तेजः च अस्मि विभावसौ।
जीवनम् सर्व-भूतेषु तपः च अस्मि तपस्विषु।।७-९।।

श्लोकार्थः
च पृथिव्याम् पुण्यः गन्धः, विभावसौ च तेजः अस्मि;
सर्व-भूतेषु जीवनम्, तपस्विषु च तपः अस्मि।

शब्दार्थः
7.9 पुण्यः=original गन्धः=fragrance पृथिव्याम्=in the earth च=also तेजः=heat च=also अस्मि=I am विभावसौ=in the fire जीवनम्=life सर्व=in all भूतेषु=living entities तपः=penance च=also अस्मि=I am तपस्विषु=in those who practice penance

Meaning
7.9: I am the pure fragrance of the earth; I am the brightness in the fire; I am the life in all the living entities; I am austerity in ascetics.