श्लोकः
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।२-३५।।

सन्धि विग्रहः
भयात् रणात् उपरतम् मंस्यन्ते त्वाम् महारथाः।
येषाम् च त्वम् बहु-मतः भूत्वा यास्यसि लाघवम्।।२-३५।।

श्लोकार्थः
महारथाः त्वाम् भयात् रणात् उपरतम् मंस्यन्ते;
येषाम् च त्वम् बहु-मत्ः भूत्वा, लाघवम् यास्यसि।

शब्दार्थः
2.35 भयात्=out of fear रणात्=from the battlefield उपरतम्=ceased मंस्यन्ते=they will consider त्वाम्=youमहारथाः=the great generals येषाम्=for whom च=also त्वम्=you बहु-मतः=in great estimation भूत्वा=having been यास्यसि=you will go लाघवम्=decreased in value

Meaning
2.35: The great Chariot-warriors, who held you in high esteem so far, would think low of you and say that you backtracked from the battlefield out of fear.