श्लोकः
श्रीभगवानुवाच।
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्।
अात्मन्येवात्मना तुष्टः  स्थितप्रज्ञस्तदोच्यते।।२-५५।।

सन्धि विग्रहः
श्रीभगवान् उवाच।
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्।
आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञः तदा उच्यते।।२-५५।।

श्लोकार्थः
हे पार्थ! यदा (नरः) मनोगतान् सर्वान् कामान्
प्रजहाति, आत्मनि एव आत्मना तुष्टः (भवति) तदा स्थितप्रज्ञः उच्यते।

शब्दार्थः
2.55 प्रजहाति=gives up यदा=when कामान्=desires for sense gratification सर्वान्=of all varieties पार्थ=O son of Pritha मनोगतान्=of mental concoction आत्मनि=in the pure state of soul एव=certainly आत्मना=by the purified mind तुष्टः=satisfied स्थितप्रज्ञः=transcendentally situated तदा=at that time उच्यते=is said

Meaning
2.55: Sri Bhagavan said:
O son of Partha, When a man completely sheds the desires of his mind, and finds satisfaction in the self by the self, he is steady in wisdom.