अथ चतुर्थोऽध्यायः। ज्ञानकर्मसंन्यासयोगः

श्लोकः
श्रीभगवानुवाच।
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।४-१।।

सन्धि विग्रहः
इमम् विवस्वते योगम् प्रोक्तवान् अहम् अव्ययम्।
विवस्वान् मनवे प्राह मनुः इ्क्ष्वाकवे अब्रवीत्।।४-१।।

श्लोकार्थः
अहम् इमम् अव्ययम् योगम् विवस्वते प्रोक्तवान्।
विवस्वान् मनवे प्राह। मनुः इक्ष्वाकवे अब्रवीत्।

शब्दार्थः
4.1 इमम्=this विवस्वते=unto the sun-god योगम्=the science of one’s relationship to the Supremeप्रोक्तवान्=instructed अहम्=I अव्ययम्=imperishable विवस्वान्=Vivasvan (the sun-god’s name) मनवे=unto the father of mankind (of the name Vaivasvata) प्राह=told मनुः=the father of mankind इ्क्ष्वाकवे=unto King Iksvaku अब्रवीत्=said

Meaning
4.1: Sri Bhagavan said: I taught this imperishable yoga to Vivasvat; Vivasvat passed this on to Manu; Manu taught Iksvāku.