श्लोकः
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्न्गच्छन्स्वपञ्श्वसन्।।५-८।।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि।
इन्द्रियाणीन्द्यार्थेषु वर्तन्त इति धारयन्।।५-९।।

सन्धि विग्रहः
न एव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित्।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपञ् श्वसन्।।४-८।।
प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि।
इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन्।।५-९।।

श्लोकार्थः
युक्तः तत्त्ववित् पश्यन्, शृण्वन्, स्पृशन्, जिघ्रन्, अश्नन्,
गच्छन्, स्वपन्, श्वसन्, प्रलपन्, विसृजन्, गृह्णन्,
उन्मिषन्, निमिषन् अपि, इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन्
किञ्चित् न एव करोमि इति मन्येत।

शब्दार्थः
5.8 न=never एव=certainly किञ्चित्=anything करोमि=I do इति=thus युक्तः=engaged in divine conciousness मन्येत=thinks तत्त्ववित्=one who knows the truth पश्यन्=seeing शृण्वन्=hearingस्पृशन्=touching जिघ्रन्=smelling अश्नन्=eating गच्छन्=going स्वपञ्=dreaming श्वसन्=breathing
5.9 प्रलपन्=talking विसृजन्=giving up गृह्णन्=accepting उन्मिषन्=opening निमिषन्=closing अपि=in spite ofइन्द्रियाणि=senses इन्द्रिय-अर्थेषु=in sense gratification वर्तन्ते=let them be so engaged इति=thusधारयन्=considering

Meaning
5.8: He is engaged in yoga, knows the truth, and thinks without doubt that he does not do anything, while seeing, hearing, touching, smelling, eating, moving, sleeping, breathing,
5.9: Speaking, discharging (evacuation), grasping, opening, or closing his eyes. He realizes that the senses operate in the realm of sense objects.