श्लोकः
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥१-३॥

सन्धि विग्रहः
पश्य एतां पाण्डुपुत्राणां आचार्य महतीं चमूं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता

शब्दार्थः
1.3 पश्य behold, एताम् these, पाण्डुपुत्राणाम् of the sons of Pandu, आचार्य O Teacher, महतीम् great, चमूम्army, व्यूढाम् arrayed, द्रुपदपुत्रेण son of Drupada, तव शिष्येण by your disciple, धीमता wise.

श्लोकार्थः
1.3. “Behold, O Teacher! this mighty army of the sons of Pandu, arrayed by the son of Drupada, thy wise disciple.