श्लोकः
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।१-३३।।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।।१-३४।।

सन्धि विग्रहः
येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगाः सुखानि च।
ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च।।१-३३।।
आचार्याः पितरः पुत्राः तथा एव च पितामहाः।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा।।१-३४।।

श्लोकार्थः
येषाम् अर्थे नः राज्यम्  काङ्क्षितम्, भोगाः सुखानि च;
ते इमे  आचार्याः पितरः पुत्राः, तथा एव च पितामहाः,
मातुलाः श्वशुराः पौत्राः श्यालाः, तथा  सम्बन्धिनः  प्राणान्
धनानि च  त्यक्त्वा, युद्धे  अवस्थिताः।

शब्दार्थः
1.33 येषाम्=of whom अर्थे=for the sake काङ्क्षितम्=is desired नः=by us राज्यम्=kingdom भोगाः=material enjoyment सुखानि=all happiness च=also ते=all of them इमे=these अवस्थिताः=situated युद्धे=on this battlefield प्राणान्=lives त्यक्त्वा=giving up धनानि=riches च=also
1.34आचार्याः=teachers पितरः=fathers पुत्राः=sons तथा=as well as एव=certainly च=alsoपितामहाः=grandfathers मातुलाः=maternal uncles श्वशुराः=fathers in law पौत्राः=grandsonsश्यालाः=brothers in law सम्बन्धिनः=relatives तथा=as well as

Meaning
1.33: They, for whose sake kingdom, enjoyment, and happiness are desired, are standing here in the battlefield ready to give up their lives and riches.
1.34: Teachers, fathers, sons, as well as grandfathers, maternal uncles, fathers-in-law, grandsons, brothers-in-law, and other relatives.